________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिताः। प्रायश्चित्तम् । स्वेन प्रोत्साहने तु 'गृहीत्वोत्कृत्य वृषणौ' इति द्वितीयम् । अनुबन्धातिशयेन प्रायश्चित्तगुरुत्वस्योक्तत्वात् । तया प्रोत्साहितस्य तु मानवं तप्तलोहशयनज्वलत्सालिङ्गनयोरन्यतरं द्रष्टव्यम् । यत्तु शङ्खन द्वादशवार्षिकमुक्तम्- 'अधःशायी जटाधारी पर्णमूलफलाशनः। एककालं समश्नीत वर्षे तु द्वादशे गते ॥ रुक्मस्तेयी सुरापश्च ब्रह्महा गुरुतल्पगः । व्रतेनतेन शुध्यन्ति महापातकिनस्त्विमे ॥' इति, तत्समवर्णोत्तमवर्णपितृदारगमने अकामकृते वा द्रष्टव्यम् । तत्रैव कामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्तौ षड्वार्षिकम् । अकामतस्तु त्रैवार्षिकम् । जनन्यां तु कामतः प्रवृत्तस्य रेतःसेकात्यानिवृत्तौ द्वादशवार्षिकम् । अकामतस्तु पवार्षिक मिति कल्प्यम् । यत्तु संवर्तेन–'पितृदारान्समारुह्य मातृवज्यै नराधमः' इत्यादिना समारोहणमात्रे तप्तकृच्छ्र उक्तः न हीनवर्णगुरुदारेषु रेतःसेकादर्वाग्द्रष्टव्यः ॥ २५९ ॥ प्रायश्चित्तान्तरमाह
प्राजापत्यं चरेत्कृच्छं समा वा गुरुतल्पगः ।
चान्द्रायणं वा त्रीन्मासानभ्यसेद्वेदसंहिताम् ।। २६० ॥ अथवा प्राजापत्यं कृच्छ्रे वक्ष्यमाणलक्षण समाः वर्षत्रयं चरेत् । एतच्च ब्राह्मणीपुत्रस्य शूद्रजातीयगुरुभार्यागमने मतिपूर्वे द्रष्टव्यम् । यदा तु गुरपत्नीं सवर्णा व्यभिचारिणीमबुद्धिपूर्व गच्छति तदा वेदजपसहितं चान्द्रायणत्रयं कुर्यात् । तत्रैव कामतः प्रवृत्तावौशनसं-'गुरुतल्पाभिगामी संवत्सरं ब्रह्मव्रतं षण्मासान्वा तप्तकृच्छं चरेत्' इति । क्षत्रियागमने तु मतिपूर्वे याज्ञवल्कीयं-'मातुः सपत्नी भगिनीमाचार्यतनयां तथा' इति गुरुतल्पव्रतातिदेशानववार्षिकम् । इदं चातिदेशिकं सवर्णगुरुभार्यागमन विषयं न भवति । तत्र कामतो मरणान्तिकस्याकामतो द्वादशवार्षिकस्य विहितत्वात् । अतः क्षत्रियादिविषयमेवेति युक्तम् । तत्रैव कामतोऽभ्यासे मरणान्तिकम् ।-'मत्या गत्वा पुनर्भायां गुरोः क्षत्रसुतां द्विजः । अण्डाभ्यां रहितं लिङ्गमुत्कृत्य स मृतः शुचिः ॥' इति कण्वस्मरणात् । अत्रैव विषये प्रायश्चित्तं यदा न चिकीर्षति तदा 'छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा' इति याज्ञवल्क्यीयो वधदण्डः प्रायश्चित्तस्थाने द्रष्टव्यः । वैश्यायां तु गुरुभार्यायां कामतो गमने षड्वार्षिकम् । अतएव स्मृत्यन्तरम्'ब्राह्मणीपुत्रस्य क्षत्रियायां मातरि गमने पादहान्या द्वादशवार्षिकम् । एवमन्यव
स्वपि । अयमर्थः । ब्राह्मणीपुत्रस्य क्षत्रियायां मातुः सपत्यां गमने पादन्यूनं द्वादशवार्षिकं यावत् । तस्यैव तथाभूतायां वैश्यायां षड्वार्षिकम् । शूद्रायां तु त्रैवार्षिकं प्रायश्चित्तमिति । एवं क्षत्रियापुत्रस्य वैश्यायां मातरि नववार्षिकम् । शूद्रायां तु षड्वार्षिकम् । एवमेव वैश्यापुत्रस्यापीति । वैश्यायां तु कामतोऽभ्यासे मरणान्तिकमेव । -'गुरोर्भार्यां तु यो वैश्यां मत्या गच्छेत्पुनः पुनः । लिङ्गाग्रं
१ गुरुत्वरयेष्टत्वात्. ङ. २ समश्नन्वै ङ.
For Private And Personal Use Only