________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०८
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः पकरोति यः। तमपीह गुरुं विद्यात्' इत्युपाध्याये । व्यासेनाप्यन्यत्र प्रयोगो दर्शित:--'गुरवो मातृपितृपत्यार्यविद्यादातृज्येष्ठभ्रातर ऋत्विजो भयत्रातानदाता च' इति । नचानेकार्थकल्पनादोषः । गुरुशब्दस्य प्रवृत्तिनिमित्तभूतायाः पूजार्हतायाः सर्वत्रानुस्यूतेः । दर्शितं च तस्याः प्रवृत्तिनिमित्तत्वं योगीश्वरेण'एते मान्या यथापूर्वमेभ्यो माता गरीयसी' इति । मान्या इत्युपक्रम्य गरीयसीत्युपसंहारं कुर्वता । (मनुः २।१४५) नच 'उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता' इत्युपाध्यायादधिकाचार्यापितुरतिशयितत्ववचनात्स एव मुख्य इति वाच्यम् । आचार्येऽप्यतिशयितत्वस्याविशिष्टत्वात् । (मनुः२।१४६) -'उत्पादकब्रह्मदाबोगरीयान्ब्रह्मदः पिता' इति । गौतमेनाप्युक्तम्--'आचार्यः श्रेष्ठो गुरूणाम्' इति । किंच यद्यतिशयितत्वमात्रेण मुख्यत्वमुच्यते तर्हि सहस्रमिति वचनान्मातुरेव गुरुत्वं स्यात् । तस्मात्सर्वे गुरवस्तत्पत्नीगमनं गुर्वङ्गनागमनमिति युक्तम् । उच्यते । निषेकादीनीति मनुवचनं निषेकादिकर्तुर्जनकस्य गुरुत्वप्रतिपादनपरम् , अनन्यपरत्वात् । यत्पुनासगौतमवचनं तत्परिचर्यापूजादिविधिशेषतया स्तुत्यर्थत्वेनान्यपरम् । अतो गुरुत्वप्रतिपादनपरान्निषेकादीति मनुवचनापितुरेव मुख्यं गुरुत्वमिति स्थितम् । अतएव वसिष्ठेनाचार्यपुत्रशिष्यभार्यासु चैवमित्याचार्यदारेष्वातिदेशिकं गुरुतल्पप्रायश्चित्तमुक्तम् । तथा जातूकादिभिरप्युक्तम्-'आचार्यादेस्तु भार्यासु गुरुतल्पव्रतं चरेत्' इत्यादि। आचार्यादेर्मुख्यगुरुत्वे तूपदेशत एव व्रतप्राप्तेरतिदेशोऽनर्थक एव स्यात् । किंच सं. वर्तेन स्पष्टमेव पितृदारग्रहणं कृतम्-'पितृदारान्समारुह्य मातृवयं नराधमः' इति । षट्त्रिंशन्मतेऽपि-'पितृभायाँ तु विज्ञाय सवर्णी योऽधिगच्छति' इति । अतोऽपि निषेकादिकर्ता पितैव मुख्यो गुरुः ॥ तच्च गुरुत्वं वर्णचतुष्टयेऽप्यविशिष्टम् । निषेकादिकर्तृत्वस्याविशेषात् । अतः स विप्रो गुरुरुच्यते इति विप्रग्रहणमुपलक्षणम् । अतः पितृपत्नीगमनमेव महापातकम् । गमनं च चरमधातुविसर्गपर्यन्तं कथ्यते । अतस्ततोऽर्वानिवृत्तौ न महापातकित्वम् । तत्र चेदं 'तप्तेऽयःशयने सार्धमायस्या' इत्याधुक्तं मरणान्तिकं प्रायश्चित्तद्वयम् । तच्च जनन्यामकामकृते । तत्सपत्यां तु सवर्णायामुत्तमवर्णायां च कामकृते द्रष्टव्यम् । 'पितृभायीं तु विज्ञाय सवर्णी योऽधिगच्छति । जननी चाप्यविज्ञाय ना मृतः शुद्धिमानुयात् ॥' इति षत्रिंशन्मतेऽभिधानात् ॥ जनन्यां तु कामकृते वासिष्ठं 'निष्कालको घृताः भ्यक्तो गोमयाग्निना पादप्रभृत्यात्मानमवदाहयेत्' इति द्रष्टव्यम् । अकामतोऽभ्यासेऽप्येतदेव ॥ ननु च 'मातुः सपत्नी भगिनीमाचार्यतनयां तथा । आचार्यपत्री स्वसुतां गच्छंस्तु गुरुतल्पगः ॥' इत्यतिदेशाभिधानान्मातृसपत्नीगमने त्वौपदेशिकं प्रायश्चित्तमयुक्तम् । उच्यते । पितृभार्या सवर्णामित्यस्मादेव वचनासवर्णग्रहणाद्धीनवर्णसपत्नीविषयमिदमातिदेशिकमिति न विरोधः । इदं च मुख्यस्यैव पुत्रस्य । इतरेषां पुनः पुत्रकार्यकरत्वमेव न पुत्रत्वम् । यथाह मनुः (९॥ १८०)-'क्षेत्रजादीन्सुतानेतानेकादश यथोचितान् । पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥' इति । तत्रोभयेच्छातः प्रवृत्तौ 'तप्तेऽयःशयने' इति प्रथम
For Private And Personal Use Only