________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४०७ तप्तेऽयःशयने यथा मरणक्षमं भवति तथा तप्ते अग्निवर्णे कृते कार्णायसे शयने अयोमय्या स्त्रीप्रतिकृत्या तप्तया सह गुरुतल्पगः स्वप्यात् । एवं सुस्वा तनुं देहं उत्सृजेत् । नियेतेति यावत् । शयनं च गुर्वङ्गनागमनं मया कृतमित्येवं स्वकर्म विख्याप्य कुर्यात् । (१९१०३)-'गुरुतल्प्यभिभाष्यैनः' इति मनुस्मरणात् । तथा स्त्रियमालिङ्गय कार्यम्-'गुरुतल्पगो मृन्मयीमायसी वा स्त्रियः प्रतिकृतिमग्निवर्णी कृत्वा कार्णायसशयने (अयोमय्या स्त्रीप्रतिकृत्या कृत्वा) तामालिङ्गय पूतो भवति' इति वृद्धहारीतसरणात् । तथा मुण्डितलोमकेशेन घृताभ्यक्तेन च कर्तव्यम्-'निष्कालको घृताभ्यक्तस्तप्तां तां सूर्मी मृन्मयीं वा परिष्वज्य मरणात्पूतो भवतीति विज्ञायते' इति वसिष्ठस्मरणात् । नच (११।६०३)-गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । सूर्मी ज्वलन्ती स्वाश्लिष्येन्मृत्युना स विशुध्यति ॥' इति मनुवाक्यानुरोधेन तप्तलोहशयनं तप्तलोहयो षिदालिङ्गनं च निरपेक्षं प्रायश्चित्तद्वयमित्याशङ्कनीयम् । मायस्था योपिता स्वपेत् । कुत्रेत्याकाङ्क्षायां तप्तेऽयःशयन इति परस्परसापेक्षतयैकत्वावगमादेककल्पस्वमेव युक्तम् ॥ अथवा वृषगौ सलिङ्गौ स्वयमुत्कृत्य छित्त्वाञ्जलिना गृहीत्वा नैर्ऋत्यां दक्षिणस्यां प्रतीच्यां दिशि देहपातान्तमकुटिलगतिर्गत्वा तनुमुत्सृजेत् । यथाह मनुः (११११०४)-'स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ । नैऋती दिशमातिष्ठेदानिपातादजिह्मगः ॥' इति । गमनं पृष्ठतोऽनीक्षमाणेन कर्तव्यम् ।-'क्षुरेण शिश्नवृषणावुत्कृत्यानवेक्षमाणो व्रजेत्' इति शङ्खलिखितमरणात् । एवं गच्छन् यत्र कुड्यादिना प्रतिवध्यते तत्रैव मरणान्तं तिष्ठेत् । 'सवृषणं शिश्नमुस्कृत्या अलावाधाय दक्षिणाभिमुखो गच्छेद्यत्रैव प्रतिहतस्तत्रैव तिष्ठेदाप्रलयात्' इति वसिष्ठस्मरणात् । दण्डोऽप्यत्रायमेव । यथाह नारदः-'भासामन्यतमां गच्छन्गुरुतल्पग उच्यते । शिश्नस्योत्कर्तनात्तत्र नान्यो दण्डो विधीयते ॥' एवं दण्डार्थमपि लिङ्गाद्युत्कर्तनं पापक्षयार्थमपि भवति । इदमेव मरणान्तिकं दण्डमभिप्रेत्योक्तं मनुना (११॥३१८)-'राजमिर्धतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥' इति । धनदण्डेन पुनः प्रायश्चित्तं भवत्येव ( ९।२४०)-'प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाक्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥' इति तेनैवोक्तत्वात् । अनयोश्च मरणान्तिकयोरन्यतरानुष्ठानेन गुरुतल्पगः शुद्येत् । गुरुशब्दश्चात्र मुख्यया वृत्त्या पितरि वर्तते । (२११४२) ---'निषेकादीनि कर्माणि यः करोति यथाविधि । संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥' इति मनुना गुरुत्वप्रतिपादनपरे वाक्ये निषेकादिकर्तुर्जनकस्यैव गुरुस्वाभिधानात्। योगीश्वरेण च निषेकादिकर्माभिप्रायेणोक्तम् । स गुरुयः क्रियां कृत्वा वेदमस्मै प्रयच्छति' इति ॥ ननु गुरुशब्दस्यान्यत्रापि प्रयोगो दृश्यते । उपनीय गुरुः शिष्यमित्यादिनाचार्ये (मनुः २।१४९)-'स्वल्पं वा बहु वा यस्य श्रुतस्यो
१ तल्पोऽभिभाष्यैनः ङ.
For Private And Personal Use Only