________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
कृतमिति जातानुतापः प्रत्यर्पयति त्यजति वा तदापस्तम्बीयं चतुर्थकालमिताशनेन त्रिवर्षमवस्थानमाङ्गिरसं वा वज्राख्यं त्रैवार्षिकं द्रष्टव्यम् ॥ ननु प्रत्यर्पणे त्यागे वापहारधात्वर्थस्य निष्पन्नत्वात्कथं प्रायश्चित्ताल्पत्वम् । अथानिपन्नस्तदा प्रायश्चित्ताभाव एव स्यानतु प्रायश्चित्ताल्पत्वम् । मैवम् । अपहारस्योपभोगादिफलपर्यन्तत्वादुपभोगात्प्रानिवृत्तौ च पुष्कलस्थापहारार्थस्याभावाद्युक्तमेव प्रायश्चित्तालावं पीतवान्त इवापेय द्रव्ये ॥ नन्वेवं सति चौरहस्ताद्धलादाकृष्य ग्रहणेऽपि तस्योपभोगलक्षणफलाभावात्प्रायश्चित्ताल्पत्वप्रसङ्गः । मैवम् । तस्य त्यागे स्वतःप्रवृत्त्यभावात् फलपर्यन्तेऽपहारे स्वतःप्रवृत्तत्वाच्च । यस्तु रजतताम्रादिसंसृष्टसुवर्णापहारी न तत्रेदं लघुप्रायश्चित्तम् । यतः संसर्गेऽपि सुवर्णत्वं नापैति आज्यत्वमिव पृषदाज्ये । अतस्तत्र द्वादशवार्षिकमेवेति युक्तम् । अथ लघुप्रायश्चित्तादि द्रव्यान्तरमेवेति लघुप्रायश्चित्तमुच्यते । न तर्हि तत्र त्रैवार्षिकादिविषयता असुवर्णत्वादेव, किंतूपपातकप्रायश्चित्तमेव । यदप्यपरमापस्तम्बोक्तम्-'स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रे सांवत्सरं चरेत्' इति तत्सुवर्णपरिमाणादर्वाङ्मापाच्चाधिकपरिमाणद्रव्यविषयम् । यत्तूक्तं सुमन्तुना-'सुवर्णस्तेयी मासं सावित्र्याष्टसहस्रमाज्याहुतीर्जुहुयात् । प्रत्यहं त्रिरात्रमुपवासस्तप्तकृच्छ्रेण च पूतो भवति' इति तत्पूर्वोक्तमाषपरिमाणसुवर्णापहारप्रायश्चित्ते सह विकल्प्यते। यदप्यपरं तेनैवोक्तम्- 'सुवर्णस्तेयी द्वादशरात्रं वायुभक्षः पूतो भवति' इति, तन्मनसापहारे प्रवृत्तस्य स्वतएवोपरतजिहीर्षस्य वेदितव्यम् । अत्रापि स्त्रीबालवृद्धादिष्वप्यर्धमेव प्रायश्चित्त वेदितव्यम् । यानि च 'अश्वरत्नमनुष्यस्त्रीभूधेनुहरणं तथा' इत्यादिना सुवर्णस्तेयसमस्वेन प्रतिपादितानि तेष्वप्यर्धमेव कार्यम् । यत्पुनश्चतुर्विंशतिमतवचनम् –'रूप्यं हृत्वा द्विजो मोहाच्चरेच्चान्द्रायणव्रतम् । गद्याणदशकादूर्ध्वमाशताविगुणं चरेत् ॥ आसहस्त्रात्तु त्रिगुणमूर्ध्व हेमविधिः स्मृतः। सर्वेषां धातुलोहानां पराकं तु समाचरेत् ॥ धान्यानां हरणे कृच्छ्रे तिलानामैन्दवं स्मृतम् ॥ रवानां हरणे विप्रश्चरेच्चान्द्रायणव्रतम् ॥' इति, तदपि गद्याणसहस्राधिकरजतहरणे सुवर्णस्तेयसमप्रायश्चित्तप्रतिपादनार्थ न पुनस्तन्निवृत्त्यर्थम्। यदपि रत्नापहारे चान्द्रायणमुक्तं तदपि गद्याणसहस्राद्धीनमूल्यरत्नापहारे द्रष्टव्यम् । ऊर्ध्वं पुनः सुवर्णस्तेयसमम् ॥ २५८॥
इति सुवर्णस्तेयप्रायश्चित्तप्रकरणम् । उद्देशक्रमप्राप्तं गुरुतल्पिप्रायश्चित्तमाह
तप्तेष्यःशयने सार्धमाय त्या योषिता स्वपेत् ।
गृहीलोत्कृत्य वृषणौ नैऋत्यां चोत्सृजेत्तनुम् ।। २५९ ॥ समा वा गुरुतल्पग इति वक्ष्यमाणश्लोकगतं गुरुतल्पगपदमत्र संबध्यते ।
१ नतीनन्तरं ङ.
२ लोभात् ङ.
३ गुरुतल्पगमन ङ.
For Private And Personal Use Only