________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता ।
४०५
दशगुणं दाप्यस्तस्य च तद्धनम् ॥' इति ॥ यद्वाऽत्यशक्त्या राजा हन्तुमसमर्थस्तदा वसिष्टोक्तं द्रष्टव्यम्-'स्तेनः प्रकीर्णकेशो राजानमभियाचेत् । ततस्तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनात्मानं प्रमापयेत् । मरणात्पूतो भवतीति विज्ञायते' इति । औदुम्बरं ताम्रमयम् । यदपि द्वितीयं प्रायश्चित्तं तेनोक्तम् –'निष्कालको गोघृताक्तो गोमयाग्निना पादप्रभृत्यात्मानं प्रमापयेन्मरणात्पूतो भवतीति विज्ञायते' इति, तदपि गुरुश्रोत्रिययागस्थादिविप्रद्रव्यापहारविषयं क्षत्रियाद्यपहर्तृविषयं वा । तत्र निष्कालक इति निर्गतकेशश्मश्रुलोमाभिधीयते । तथाश्वमेधाद्यनुष्ठानेन वा । तथा प्रचेतसा मरणान्तिकमभिधायोक्तम्-'इष्ट्वा वाश्वमेधेन गोसवेन वा विशुद्ध्येत्' इति । एतच्च विदक्षत्रियाद्यपहर्तृविषयम् ॥२५७॥ प्रायश्चित्तान्तरमाह
अनिवेद्य नृपे शुध्येत्सुरापव्रतमाचरन् ।
आत्मतुल्यं सुवर्ण वा दद्याद्वा विप्रतुष्टिकृत् ॥ २५८ ॥ - स्वीयं स्तेयं राजन्यनिवेद्य सुरापव्रतं द्वादशवार्पिकमाचरन् शुध्येत् । शव. शिरोध्वजे तत्कपालधारणनिराकरणार्थ सुरापव्रतमित्युक्तम् । एतच्चाकामकारविषयम् । ( मनुः १८९)-'इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम्' इत्यकामतो विहितस्यैव द्वादशवार्षिकस्यातिदेशात् ॥ नन्वकामतोऽपहार एव न संभवतीति कथं तद्विषयत्वम् । उच्यते । यदा वस्त्रप्रान्तग्रथितं सुवर्णादिकमज्ञानादपहरति रजतादिद्रव्यान्तरबुद्ध्या वा हृत्वाचानन्तरमेवान्यस्मै दत्तं नाशितं वा न पुनः स्वामिने प्रत्यर्पितं तदा संभवत्येवाकामतोऽपहारः। यस्तु ताम्रादिकस्य रसवेधाद्यापादितसुवर्णरूपस्यापहारो न तत्रेदं प्रायश्चित्तम् । मुख्यजातिसमवायाभावात् । नच मुख्यसादृश्यमात्रेण गौणे मुख्यधर्मा भवन्ति । यद्यपीदृशमेवासुवर्ण सुवर्णभ्रान्त्यापहरति तथापि नेदं प्रायश्चित्तम् । असुवर्णापहारित्वादेव । नच सृष्टश्चेद्राह्मणवधे अहत्वापीतिवदत्रापि दोष इति वाच्यम्, असुवर्णे प्रवृत्तत्वादेव । नाब्राह्मणः सृष्टश्चेदित्यस्य विषयः । यच्चेदं 'मनसा पापं ध्यात्वा प्रणवपूर्वक व्याहृतीर्मनसा जपेत् । व्याहृत्या प्राणायाम बिराचरेत् । प्रवृत्तौ कृच्छ्रे द्वादशरात्रं चरे'दिति, तदपि सम्यगर्थप्रवृत्तिविषयम् । अतो नेदृशमज्ञानतः स्वर्णापहारः प्रायश्चित्तस्य निमित्तं, किंतु रजतादिबुद्ध्या पूर्वोक्त एव स्वर्णापहारः । अस्मिन्नेव विषये यदापहर्तात्यन्तमहाधनः तदात्मतुलितं सुवर्ण दद्यात् । अथ तावद्धनं नास्ति तपश्चर्यायां चाशक्तस्तदा विप्रतुष्टिकृतिप्रस्य यावजीवं कुटुम्बभरणपर्याप्ततया तुष्टिकरं धनं दद्यात् । यदा तु निर्गुणस्वामिक द्रव्यमपहरति तदा 'एतदेव व्रतं स्तेनः पादन्यूनं समाचरेत्' इति व्यासेनोक्तं नववार्षिकं द्रष्टव्यम् । यदा पुनरीदृशमेव क्षुरक्षामकुटुम्बपरिरक्षणार्थमपहरति तदा अत्रिप्रतिपादितं षड्वार्षिकं 'स्वर्जिदादिं वा ऋतुं कुर्यात्तीर्थयात्रां वा' 'षडब्दं वाचरेत्कृच्छ्रे यजेद्वा ऋतुना द्विजः । तीर्थानि वा भ्रमविद्वांस्ततः स्तेयाद्विमुच्यते ॥' इति । यदा त्वपहारसमनन्तरमेव हा कष्टं मया
For Private And Personal Use Only