________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
४११
चरेद्विप्रः समाहितः ॥' इति । तया प्रोत्साहितस्य प्राजापत्यम् । उभयेच्छातः प्रवृत्तौ सान्तपनम् । स्वेन प्रोत्साहितायां सप्तरात्रोपवास इति । अनयैव दिशान्येषामपि स्मृतिवचसां विषयव्यवस्थोहनीया। पुरुषवच्च स्त्रीणामप्यत्र महापातकित्वमविशिष्टम् । तथाहि कात्ययन:--'एवं दोषश्च शुद्धिश्च पतितानामुदाहृता । स्त्रीणामपि प्रसक्तानामेष एव विधिः स्मृतः ॥' इति । सतस्तस्या अपि कामतः प्रवृत्ती मरणान्तिकमविशिष्टम् । अतएव पुरुषस्य मरणान्तिकमुक्त्वा स्त्रिया अपि योगीश्वरेण मरणान्तिकं दर्शितम्-'छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रियास्तथा' इति । अकामतस्तु मनुनोक्तम्-(११।१८८) 'एतदेव व्रतं कार्य योषित्सु पतितास्वपि' इति । द्वादशवार्षिकमेवार्धकल्पनया कार्यम् । यानि पुनगुरुतल्पसमानि 'सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजासु च। सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥' इति प्रतिपादितानि, यानि चातिदेशविषयभूतानि 'पितुः स्वसारं मातुश्च मातुलानी स्नुषामपि । मातुः सपनी भगिनीमाचार्यतनयां तथा ॥ आचार्यपत्री स्वसुतां गच्छंस्तु गुरुतल्पगः॥' इति प्रतिपादितानि, तेष्वेकरात्रादूर्ध्वमेकामतोऽभ्यस्तेषु यथाक्रमेण पवार्षिकं नववार्षिकं च प्रायश्चित्तं विज्ञेयम् । अस्मिन्नेव विषये कामतोऽत्यन्ताभ्यासे मरणान्तिकम् । तथाच बृहद्यमः-रेतः सिक्त्वा कुमारीषु स्वयोनिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ॥' इति । अन्त्यजाश्चात्र-'चण्डालः श्वपचः क्षत्ता सूतो वैदेहिकस्तथा । मागधायोगवौ चैन सप्तैतेऽन्त्यावसायिनः ॥' इति मध्यमाङ्गिरोदर्शिता ज्ञातव्याः । नतु 'रजकश्चर्मकारश्च' इत्यादिप्रतिपादिताः। तेषु लघुप्रायश्चित्तस्योक्तत्वात् ॥ तथा (११११७५)-'चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥' इति चाण्डालादिसाम्यं प्रतिपादयता मनुनापि कामतोऽत्यन्ताभ्यासे मरणान्तिकं दर्शितम् । तथाहि अज्ञानतश्चण्डालीगमनाभ्यासे पतत्यतः पतितप्रायश्चित्तं द्वादशवार्षिकं कुर्यात् । कामतोऽत्यन्ताभ्यासे चण्डालैः साम्यं गच्छति । अतो द्वादशवार्षिकाधिक मरणान्तिकं कुर्यात् । एतच्च बहुकालाभ्यासविषयम् । एकारावाभ्यासे तु वर्षत्रयम् । यथाह मनुः (११।१७८)'यत्करोत्येकरात्रेण वृषलीसेवनाविजः। तद्भेक्षभुग्जपन्नित्यं त्रिभिर्वयंपोहति ॥' . इति । अत्र वृषलीशब्देन चण्डाल्यभिधीयते-चण्डाली बन्धकी वेश्या रजःस्था या च कन्यका। उढा या च सगोत्रा स्यादृषल्यः पञ्च कीर्तिताः॥' इति स्मृत्यन्तरे चण्डाल्यां वृषलीशब्दप्रयोगदर्शनात् । बन्धकी स्वरिणी । कथं पुनरत्राभ्यासावगमः। उच्यते । यत्करोत्येकरात्रेणेत्यत्यन्तसंयोगापवर्गवाचि. न्यास्तृतीयाया दर्शनात् । एकरात्रेण चात्यन्तसंयोगो गमनस्याभ्यासं विनानुपपत्र इति गमनाभ्यासोऽवगम्यते । अतएवैकरावाहुकालाभ्यासविषयं प्रागुक्तं द्वादश. वर्षादिगुरुतल्पवतातिदेशिकं मरणान्तिकं च । यदा पुननितोऽज्ञानतो वा चण्डा.
१ मेवात्र कल्पनया ङ. २ दूधै कामतो ङ. ३धिकारान्मरणा ङ. ४ चण्डालाद्यां ग.
For Private And Personal Use Only