________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१२
याज्ञवल्क्यस्मृतिः।
[प्रायश्चित्ताध्यायः
ल्याद्याः सकृद्गच्छति तदा 'चण्डाल पुल्कसानां तु भुक्त्वा गत्वा च योषितम् । कुच्छ्राब्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ॥' इति यमायुक्तं संवत्सरं कृच्छ्रानुष्ठानं चान्द्रायणद्वयं यथाक्रमेण द्रष्टव्यम् । स्वयोनिष्वन्त्यजासु चेत्येकवाक्यसमभिव्याहाराद्भगिन्यादिष्वपीयमेव व्यवस्था वेदितव्या । मरणान्तिकं चावाग्निप्रवेशनम् । 'जनन्यां च भगिन्यां च स्वसुतायां तथैव च । स्नुषायां गमनं चैव विज्ञेयमतिपातकम् ॥ अतिपातकिनस्त्वेते प्रविशेयुर्हताशनम् ॥' इति कात्यायनस्मरणात् । जनन्यां सकृद्मने भगिन्यादिषु चासकृद्गमने अग्निप्रवेश इति द्रष्टव्यम्। महापातकस्य जननीगमनस्य तदतिदेशविषयभूतातिपातकस्य भगिन्यादिगमनस्य च तुल्यत्वायोगात् । यत्तु बृहद्यमेनोक्तम्-'चाण्डाली पुल्कसी ग्लेच्छी स्नुषां च भगिनी सखीम् । मातापित्रोः स्वसारं च निक्षिप्तां शरणागताम् ॥ मातुलानी प्रव्रजितां स्वगोत्रां नृपयोषितम् । शिष्यभार्या गुरो याँ गत्वा चान्द्रायणं चरेत् ॥' इति, यच्चाङ्गिरोवचनम्-'पतितान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । मासोपवासं कुर्वीत चान्द्रायणमथापि वा ॥' इति, तदुभयमपि गुरुतल्पातिदेशविषयेषु कामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्ती द्रष्टव्यम् । यदपि संवर्तवचनम् -'भगिनीं मातुराप्तां च स्वसारं चान्यमातृजाम् । एता गत्वा स्त्रियो मोहात्तप्तकृच्छं समाचरेत् ॥' इति, तदनन्तरोक्त एव विषये अकामतः प्रवृत्तस्य रेतःसेकादर्वानिवृत्तौ द्रष्टव्यम् । यदा पुनरेता एवात्यन्तव्यभिचारिणीर्गच्छति तदापीदमेव प्रायश्चित्तयुगलं चान्द्रायणतप्तकृच्छ्रास्मकं क्रमेण कामतोऽकामतश्च प्रवृत्तौ द्रष्टव्यम् । साधारणस्त्रीषु तु गुरुणोपभुकास्वपि गमने गुरुतल्पत्वदोषो नास्ति । 'जात्युक्तं पारदार्य च कन्यादूषणमेव च । साधारणस्त्रियां नास्ति गुरुतल्पत्वमेव च ॥' इति व्याघ्रस्मरणात् । एवमन्यान्यपि स्मृतिवचनान्युच्चावचप्रायश्चित्तप्रतिपत्तिपराण्यन्विष्य विषयव्यवस्थोहनीया ग्रन्थगौरवभयान लिख्यन्ते ॥ २६० ॥
इति गुरुतल्पप्रायश्चित्तप्रकरणम् । एवं ब्रह्महादिमहापातकिप्रायश्चित्तान्यभिधायावसरप्राप्तं तत्संसर्गिप्रायश्चित्तमाह. एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः ।
एभिः पूर्वोक्तैर्ब्रह्महादिभिरेकं संवत्सरं योऽत्यन्तं संवसति सहाचरति सोऽपि तत्समः। यो येन सहाचरति स तदीयमेव प्रायश्चित्तं कुर्यादिति तदीयप्रायश्चित्तातिदेशार्थ तत्समग्रहणम् न पुनः पातकित्वातिदेशार्थम् । तस्य 'यश्च तैः सह संवसेत्' इत्युपदेशत एव सिद्धत्वात् । अत्र च सत्यप्यतिदेशत्वे कृत्स्नमेव द्वादशवार्षिक कार्यम्, साक्षान्महापातकिस्वारसंसर्गिणः । अपिशब्दान्न केवलं महापातकिसंयोगी तत्समः किंत्वतिपातकीपातक्युपपातक्यादीनां मध्ये यो येन सह संसर्ग करोति सोऽपि तत्सम इति तदीयमेव प्रायश्चित्तं कुर्यादिति दर्शयति १ पातकत्वा ख. २ अतिदेशकत्वे ङ.
For Private And Personal Use Only