SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १ इति सर्वं निरवद्यं ङ. Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । ४१३ अतएव मनुना सकलं प्रायश्चित्तजातमभिधायाभिहितम् ( ११।१८१ ) - 'यो येन पतितेनैषां संसर्ग याति मानवः । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥' इति । विष्णुनापि सामान्येनोपपातक्या देनस्त्रिमात्र संसर्गे तत्प्रायश्चित्तभाक्वं दर्शितम् -- 'पापात्मना येन सह यः संसृज्यते स तस्यैव व्रतं कुर्यात्' इति । अतएव मनुना सामान्येनैन स्विमात्रप्रतिषेधः कृतः ( ११।१८९ ) - ' एनस्विभिरनिर्णिक्तैर्नार्थं कंचित्समाचरेत्' इति । तथा - 'न संसर्ग भजेत्सद्भिः प्रायश्चित्ते कृते सति' इति च । एतच्च द्वादशवार्षिकादिपतितप्रायश्चित्तं बुद्धिपूर्व संसर्गविषयम् । --- 'पतितेन सहोषित्वा जानन्संवत्सरं नरः । मिश्रितस्तेन सोऽब्दान्ते स्वयं च पतितो भवेत् ॥' इति देवलस्मरणात् । अज्ञानतः संसर्गे पुनर्वसिष्टोक्तम्- 'पतितसंप्रयोगे तु ब्राह्मण वा यौनेन वा स्त्रौवेण वा यास्तेभ्यः सकाशान्मात्रा उपलब्धास्तासां परित्यागतस्तैश्च न संवसेदुदीचीं दिशं गत्वाऽनश्न-संहिताध्ययनमधीयानः पूतो भवतीति विज्ञायते' इति । तथा - 'ब्रह्महा म द्यपः स्तेनस्तथैव गुरुतल्पगः । एते महापातकिनो यश्च तैः सह संवसेत् ॥' इति, तैरिति तृतीयया सर्वनामपरामृष्टप्रकृतब्रह्महादिचतुष्टय संसर्गिण एव महापातकित्ववचनात्तत्संसर्गिणो न महापातकित्वम् ॥ ननु महापातकि संसर्ग एव महापातकित्वे हेतुर्न ब्रह्मादिविशेषसंसर्गः । तस्य व्यभिचारात् । अतोऽत्र ब्रह्मादिसंसर्गिमंसर्गिणोऽपि महापातकिसंसर्गो विद्यत इति तस्यापि महापातकित्वं स्यान्न च प्रतिपेध उच्यते । स्यादेवं यदि प्रमाणान्तरगम्यं महापातकित्वं स्यात् । शब्दैकसमधिगम्ये तु तस्मिन्नेव भवितुमर्हतीति । तैरिति प्रकृतविशेषपरामर्शिना सर्वनाम्ना ब्रह्महादिविशेषसंसर्गस्यैव महापात कित्व हेतुत्वस्यावगमितत्वात् । एवंच सति प्रतिषेधाभावोऽप्यहेतुः प्रायभावादेव । अतः संसर्गिसंसर्गिणां द्विजातिकर्मभ्यो हानिर्न भवति प्रायश्चित्तं तु भवत्येव । नच संसर्गिसंसर्गिणः पातित्याभावे कथं प्रायश्चित्तमिति वाच्यम् । ( ११।१८९ ) - 'एनस्विभिरनिर्णिक्तैर्नार्थं कंचित्समाचरेत्' इति सामान्येनैनस्विमात्र संसर्गप्रतिषेधेन महापातकि संसर्गिसंसर्गस्यापि प्रतिषिद्धत्वात्पातित्याभावेsपि युक्तमेव प्रायश्चित्तम् । तच्च पादहीनम् । - ' यो येन संवसेद्वर्ष सोऽपि तत्समतामियात् । पादहीनं चरेत्सोऽपि तस्य तस्य व्रतं द्विजः ॥' इति व्यासोक्तं द्रष्टव्यम् । एवं चतुर्थपञ्चमयोरपि कामतः संसर्गिणोरर्धहीनं त्रिपादोनं च द्रष्टव्यम् । अतः साक्षाद्ब्रह्महादिसंसर्गिण एव तदीयप्रायश्चित्ताधिकारो न संसर्गिसंसर्गिण इति सिद्धम् ॥ अत्र च ब्रह्महादिषु यद्यपि कामतो मरणान्तिकमुपदिष्टं तथापि संसर्गिणस्तन्नातिदिश्यते । स तस्यैव व्रतं कुर्यादिति व्रतस्यैवातिदेशात् । मरणस्य च व्रतशब्दवाच्यत्वाभावात् । अतोऽत्र कामकृतेऽपि संसर्गे द्वादशवार्षिकमकामतस्तु तदर्धम् । संसर्गश्च स्वनिबन्धनकर्मभेदादने कथा भिद्यते । यथाह वृद्धबृहस्पतिः - 'एक शय्यासनं पतिर्भाण्डपङ्कयन्न मिश्रम् । याजनाध्यापने योनिस्तथा च सहभोजनम् ॥ नवधा संकरः प्रोक्तो न 1 २ तैरिति सर्वनाम ख. ३ तस्मान्नैवं ङ.. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy