________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१४
याज्ञवल्क्यस्मृतिः ।
[ प्रायश्चित्ताध्यायः
I
कर्तव्योsधमैः सह ॥' इति । देवलोऽपि - 'संलापस्पर्श निःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥' इति । एकशय्यासनमेकखट्टाशयनमेक पङ्क्तिभोजनमेकभाण्डपचनमन्नेन मिश्रणं संसर्गस्तदीयान्नभोजनमिति यावत् । याजनं पतितस्य स्वस्य वा तेन । अध्यापनं तस्य स्वस्य वा तेन । यौनं तस्मै कन्यादानं तत्सकाशाद्वा कन्यायाः प्रतिग्रहः । सहभोजनमे - कामत्रभोजनम् । संलापः संभाषणम् । स्पर्शो गात्रसंमर्दः । निःश्वासः पतितमुखवायुसंपर्कः । सहयानमेकतुरगाद्यारोहणम् । एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यमित्यपेक्षायां वृहद्विष्णुनोक्तम्- 'संवत्सरेण पतति पतितेन सहाचरन्नेकयानभोजनासनशयनैः, यौनस्त्रवमुख्यैस्तु संबन्धैः सद्य एव इति । अक भोजनमेकपङ्गिभोजनम् । एकामत्रभोजने तु सद्यः पातित्यम् । —— - ' याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥' इति देवलस्मरणात् । स्रौवशब्देन याजनमभिधीयते । मुख्यशब्देन मुखभवत्वेनाध्यापनम् । यौनस्त्रौवमुख्यैरिति सत्यपि द्वन्द्वनिर्देशे प्रत्येकमेव तेषां सद्यः पतन हेतुत्वम् |- 'यः पतितैः सह यौनमुख्य स्रौवानां संबन्धानामन्यतमं संबन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तम्' इति सुमन्तुस्मरणात् । एकयानादिचतुयस्य तु समुदितस्यैव पतनहेतुत्वम् । - ' एकयानभोजनासनशयनैः' इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्टानस्य तु पतन हेतुत्वाभावेऽपि दोपहेतुत्वमस्त्येव । —'आसनाच्छयनाद्या नात्संभाषात्सह भोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥' इति पराशरवचनेन निरपेक्षाणामपि पापहेतुत्वावगमात् । संलापस्पर्श निःश्वासानां तु यानादिचतुष्टयेनानुषङ्गिकतया समुच्चितानामेव पतन हेतुत्वं न पृथग्भूतानामल्पत्वात् । पापहेतुत्वं पुनरस्त्येव । - - 'संलापस्पशनिःश्वास' इति देवलवचनस्य दर्शितत्वात् । अतः संलापादिरहिते सहयानादिचतुष्टये कृते पञ्चमभागोनं द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् । तत्सहिते तु पूर्णम् । एवंच सति 'एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' इति योगी - श्वरवचनमपि सहयानादिचतुष्टयपरमेव युक्तम् । यतः संलापादीनां पृथक्पातित्यहेतुत्वं नास्ति । अतएव मनुना ( १६/१७० ) - ' संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥' इति यानादिचतुष्टयस्यैव संवत्सरेण पातित्यहेतुत्वमुक्तम् । अत्रासनग्रहणं शयनस्याप्युपलक्षणम् । अत्र च ' संवत्सरेण पतति पतितेन सहाचरन् । यानाशनासनात्' इति व्यवहितेन संबन्धः । प्राग्दर्शित विष्णुवचनानुरोधात् । तथा - 'संवत्सरेण पतति पतितेन सहाचरन् । भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥' इति देवलवचनाच्च । नचानन्वयदोषः । यानासनाशनादिहेतोराचरन्नाचारं कुर्वन्निति भेदविवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमितयेष्ट्येवेति । यद्वा भाचरनिति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनासनादिति द्वितीयार्थे पञ्चमी । याजनाध्यापनाद्यौना (त्सहभोजना ) न तु संवत्सरेण पतति किंतु सद्य एव प्राचीनवचननिचयानुरोधादेव | भतो यौनादिचतुष्टयेन सद्यः पतति यानादिचतुष्टयेन
For Private And Personal Use Only