SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता। ४१५ तु संवत्सरं निरन्तराभ्यासेनेति युक्तं 'वत्सरं सोपि तत्समः' इति अत्यन्तसंयो. गवाचिन्या द्वितीयया दर्शनादन्तरितदिवसगणना कार्या । यथा षष्ट्यधिकश. तत्रयदिवसव्यापित्वं संसर्गस्य भवति ततो न्यूने तु न पतितप्रायश्चित्तं किंवन्यदेव । यथाह पराशरः-'संसर्गमाचरन्विप्रः पतितादिष्वकामतः । पञ्चाहं वा दशाहं वा द्वादशाहमथापि वा ॥ मासार्धं मासमेकं वा मासत्रयमथापि वा । अब्दार्धमेकमब्दं वा भवेदूज़ तु तत्समः ॥ त्रिरात्रं प्रथमे पक्ष द्वितीये कृच्छ्रमाचरन् । चरेसान्तपनं कृच्छ्रे तृतीये पक्ष एव तु । चतुर्थे दशरात्रं स्यात्पराकः पञ्चमे ततः । षष्ठे चान्द्रायणं कुर्यात्सप्तमे स्वैन्दवद्वयम् ॥ अष्टमे च तथा पक्षे पण्मासान्कृच्छ्रमाचरेत् ॥' इति ॥ कामतः संसर्गे पुनर्विशेषः स्मृत्यन्तरेऽभिहितः-सुमन्तुः-'पञ्चाहे तु चरेत्कृच्छ्र दशाहे तप्तकृच्छ्रकम् । पराकस्त्वर्धमासे स्यान्मासे चान्द्रायणं चरेत् ॥' इति ॥ 'मासत्रये प्रकुवीत कृच्छ्रे चान्द्रायणोत्तरम् । पाण्मासिके तु संसर्गे कृच्छं त्वब्दार्धमाचरेत् ॥ संसर्गे त्वाब्दिके कुर्यादब्दं चान्द्रायणं नरः ॥' इति । अत्र चाब्दिके संसर्गे इति किंचिन्यून इति द्रष्टव्यम् । पूर्णे तु वत्सरे मन्वादिभिर्दादशवार्षिकस्सरणात् । यत्तु बार्हस्पत्यं वचनम्-'पाण्मासिके तु संसर्गे याजनाध्यापनादिना। एकत्रासनशय्याभिः प्रायश्चित्ताधमाचरेत् ॥' इति । याजनाध्यापनयानैकपात्रभोजनानां षण्मासात्पातित्यवचनमेतदकामतोऽत्यन्तापदि पञ्चमहायज्ञादिप्राये याजनेऽङ्गाध्यापने दुहितृभगिनीव्यतिरिक्ते च योनिसंबन्धे द्रष्टव्यम् । प्रकृष्टयाजनादिभिः सद्यःपातित्यस्योक्तत्वात् । एतद्दिगवलम्बनेनैव दुहितृभगिनीनुषागाम्यतिपातकिसंसर्गिणां कामतो नववार्षिकं अकामतः सार्धचतुर्वार्षिकं कल्पनीयम् । सखिपितृव्यदारादिगामिपातकिसंसर्गिणां कामतः षड्वार्षिकमकामतस्त्रैवार्षिकम् । अथोपपातक्यादिसंसर्गिणामपि कामतस्तदीयमेव त्रैमासिकमकामतोऽर्धमित्यूहनीयम् । पुरुषवत्स्त्रीणामपि महापातक्यादिसंसर्गात्पातित्यमविशिष्टम् । यथाह शौनकः-'पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि तान्येव ।' ब्राह्मणी हीनवर्णसेवायामधिकं पततीति । अतस्तासामपि महापातकिप्रभृतीनां मध्ये येन सह संसर्गस्तदीयमेव प्रायश्चित्तमर्धकृत्या योजनीयम् । एवं बालवृद्धातुराणामपि कामतोऽर्धमकामतः पादः । तथानुपनीतस्यापि बालस्य कामतः पादोऽकामतस्तदर्धमित्येषा दिक् ॥ पतितसंसर्गप्रतिषेधेन प्रतिषिद्धस्य यौनसंबन्धस्य क्वचित्प्रतिप्रसवमाह कन्यां समुद्वहेदेषां सोपवासामकिंचनाम् ॥ २६१॥ एषां पतितानां कन्यां पतितावस्थायामुत्पन्नां सोपवासां कृतसंसर्गकालोचितप्रायश्चित्तामकिंचनामगृहीतवस्त्रालंकारादिपितृधनामुद्हेत् । कन्यां समुदहे. दिति वदनस्वयमेव कन्यां त्यांतपतितसंसर्गी समुदहेन्न पुनः पतितहस्तात्पति १ भ्यस्तेनेति ङ. २ मधकृप्त्या ङ. . मा० ३८ . ... .. . For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy