Book Title: Yagnavalkya Smruti
Author(s): Vasudev Sharma
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 446
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४१४ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः I कर्तव्योsधमैः सह ॥' इति । देवलोऽपि - 'संलापस्पर्श निःश्वाससहयानासनाशनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥' इति । एकशय्यासनमेकखट्टाशयनमेक पङ्क्तिभोजनमेकभाण्डपचनमन्नेन मिश्रणं संसर्गस्तदीयान्नभोजनमिति यावत् । याजनं पतितस्य स्वस्य वा तेन । अध्यापनं तस्य स्वस्य वा तेन । यौनं तस्मै कन्यादानं तत्सकाशाद्वा कन्यायाः प्रतिग्रहः । सहभोजनमे - कामत्रभोजनम् । संलापः संभाषणम् । स्पर्शो गात्रसंमर्दः । निःश्वासः पतितमुखवायुसंपर्कः । सहयानमेकतुरगाद्यारोहणम् । एतेषां मध्ये केन कर्मणा कियता कालेन पातित्यमित्यपेक्षायां वृहद्विष्णुनोक्तम्- 'संवत्सरेण पतति पतितेन सहाचरन्नेकयानभोजनासनशयनैः, यौनस्त्रवमुख्यैस्तु संबन्धैः सद्य एव इति । अक भोजनमेकपङ्गिभोजनम् । एकामत्रभोजने तु सद्यः पातित्यम् । —— - ' याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥' इति देवलस्मरणात् । स्रौवशब्देन याजनमभिधीयते । मुख्यशब्देन मुखभवत्वेनाध्यापनम् । यौनस्त्रौवमुख्यैरिति सत्यपि द्वन्द्वनिर्देशे प्रत्येकमेव तेषां सद्यः पतन हेतुत्वम् |- 'यः पतितैः सह यौनमुख्य स्रौवानां संबन्धानामन्यतमं संबन्धं कुर्यात्तस्याप्येतदेव प्रायश्चित्तम्' इति सुमन्तुस्मरणात् । एकयानादिचतुयस्य तु समुदितस्यैव पतनहेतुत्वम् । - ' एकयानभोजनासनशयनैः' इति इतरेतरयुक्तानां निर्देशात् । प्रत्येकानुष्टानस्य तु पतन हेतुत्वाभावेऽपि दोपहेतुत्वमस्त्येव । —'आसनाच्छयनाद्या नात्संभाषात्सह भोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥' इति पराशरवचनेन निरपेक्षाणामपि पापहेतुत्वावगमात् । संलापस्पर्श निःश्वासानां तु यानादिचतुष्टयेनानुषङ्गिकतया समुच्चितानामेव पतन हेतुत्वं न पृथग्भूतानामल्पत्वात् । पापहेतुत्वं पुनरस्त्येव । - - 'संलापस्पशनिःश्वास' इति देवलवचनस्य दर्शितत्वात् । अतः संलापादिरहिते सहयानादिचतुष्टये कृते पञ्चमभागोनं द्वादशवार्षिकं प्रायश्चित्तं कुर्यात् । तत्सहिते तु पूर्णम् । एवंच सति 'एभिस्तु संवसेद्यो वै वत्सरं सोऽपि तत्समः' इति योगी - श्वरवचनमपि सहयानादिचतुष्टयपरमेव युक्तम् । यतः संलापादीनां पृथक्पातित्यहेतुत्वं नास्ति । अतएव मनुना ( १६/१७० ) - ' संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥' इति यानादिचतुष्टयस्यैव संवत्सरेण पातित्यहेतुत्वमुक्तम् । अत्रासनग्रहणं शयनस्याप्युपलक्षणम् । अत्र च ' संवत्सरेण पतति पतितेन सहाचरन् । यानाशनासनात्' इति व्यवहितेन संबन्धः । प्राग्दर्शित विष्णुवचनानुरोधात् । तथा - 'संवत्सरेण पतति पतितेन सहाचरन् । भोजनासनशय्यादि कुर्वाणः सार्वकालिकम् ॥' इति देवलवचनाच्च । नचानन्वयदोषः । यानासनाशनादिहेतोराचरन्नाचारं कुर्वन्निति भेदविवक्षया संबन्धोपपत्तेः । यथा एतया पुनराधेयसंमितयेष्ट्येवेति । यद्वा भाचरनिति शत्रा हेत्वर्थस्य गमितत्वात् । यानाशनासनादिति द्वितीयार्थे पञ्चमी । याजनाध्यापनाद्यौना (त्सहभोजना ) न तु संवत्सरेण पतति किंतु सद्य एव प्राचीनवचननिचयानुरोधादेव | भतो यौनादिचतुष्टयेन सद्यः पतति यानादिचतुष्टयेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554