________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ।
प्रायश्चित्तमपि भवतीत्यर्थः ॥ ब्रह्मचारिणस्तु प्रायश्चित्तद्वैगुण्यं षोडशवर्षादूर्ध्वमेव । अर्वाक्तु पुनः 'बालो वाप्यूनषोडशः । प्रायश्चित्तार्श्वमर्हन्ति' इति षोडशवर्षादर्वाचीनस्यार्ध प्रायश्चित्ताभिधानात् । नच द्वादशवार्षिके चतुर्गुणे क्रियमाणे मध्ये विपत्तिशङ्कया समाध्यनुपपत्तेः प्रवृत्तिरेव नोपपद्यत इति शङ्कनीयम् । यतः प्रकान्तप्रायश्चित्तस्य मध्ये विपत्तावपि पापक्षयो भवत्येव । यथाह हारीतः'प्रायश्चित्ते व्यवसिते कर्ता यदि विपद्यते । पूतस्तदहरेवासाविह लोके परत्र च ॥' इति । व्यासोऽप्याह - 'धर्मार्थं यतमानस्तु न चेच्छक्नोति मानवः । प्राप्तो भवति तत्पुण्यमत्र वै नास्ति संशयः ॥' इति ॥ २५० ॥
अधुना निमित्तान्तरेषु ब्रह्महत्याप्रायश्चित्तस्यातिदेशमाह - यागस्थक्षत्रविट्याती चरेद्रह्महणि व्रतम् ।
गर्महा च यथावर्ण तथात्रेयीनिषूदकः ॥ २५९ ॥
३९५
दीक्षणीयाद्युदवसानीयापर्यन्ते सोमयागप्रयोगे वर्तमानौ क्षत्रियवैश्यो यो व्यापादयति असौ ब्रह्महणि पुरुषे यद्ब्रह्महत्याव्रतमुपदिष्टं द्वादशवार्षिकादि तच्चरेत् । यद्यपि यागशब्दः सामान्यवचनस्तथाप्यत्र सोमयागमभिधत्ते || 'सवनगतौ च राजन्यवैश्यौ' इति वसिष्ठेन सवनत्रय संपाद्यस्य सोमयागस्यैव निर्दिष्टत्वात् । अत्रच गुरुलघुभूतानां द्वादशवार्षिकादिब्रह्महत्याव्रतानां जातिशतिगुणाद्यपेक्षया प्रागुक्तवद्व्यवस्था वेदितव्या । एवं गर्भवधादिष्वपि । मरणान्तिकं तु नातिदिश्यते । व्रतग्रहणात् । अतः कामतो यागस्थक्षत्रियादिवधे त्रतस्यैव द्वैगुण्यम् । एतच्च व्रतं संपूर्णमेव कर्तव्यम् । पूर्वयोर्वर्णयोर्वेदाध्यायिनं इत्वेति प्रक्रम्यापस्तम्बेन द्वादशवार्षिकाभिधानात् । गर्भ च विन्नासु संभूतं हत्वा यथावर्ण यद्वर्णपुरुषवधे यत्प्रायश्चित्तमुक्तं तद्वर्णगर्भवधे तच्चरेत् । एतच्चानुपजातस्त्रीपुंनपुंसकव्यञ्जनगर्भविषयम् । ( १११८७ ) - ' हत्वा गर्भमविज्ञातम्' इति मानवे विशेषदर्शनात् । अत्रच यद्यपि ब्राह्मणगर्भस्य ब्राह्मणत्वादेव तद्वधनिमित्ततप्राप्तिस्तथापि स्त्रीत्वस्यापि संभवात्स्त्रीशूद्रविट्क्षत्रवध इत्युपपातकत्वेन तत्प्रायश्चित्तप्राप्तिरपि स्यादतः स्त्रीपुंनपुंसकत्वेना विज्ञातेऽपि ब्राह्मणगर्भत्वमात्रप्रयुक्तं ब्रह्महत्याव्रतं कुर्यादित्यर्थवतिदेशवचनम् । उपजाते स्त्रीपुंसादिविशे
व्यञ्जने यथायथमेव प्रायश्चित्तम् । यश्चात्रेय्या निषूदको व्यापादकः सोपि तथा व्रतं चरेत् । हन्यमानाश्रेयीवर्णानुरूपं व्रतं चरेदित्यर्थः । आत्रेयीशब्देनर्तुमत्युच्यते । - ' रजस्वलामृतुस्नातामात्रेयीमाहुर्यत्र ह्येतदपत्यं भवति' इति वसिष्ठ - स्मरणात् । अत्रिगोत्रजा च । -' - 'अत्रिगोत्रां वा नारीम्' इति विष्णुस्मरणात् । एतदुक्तं भवति । ब्राह्मणगर्भवधे ब्राह्मण्यात्रेयीवधे च ब्रह्महत्याव्रतम् । क्षत्रियगर्भवधे क्षत्रियात्रेयीवधे च क्षत्रहत्याव्रतमेवमन्यत्रापीति । चशब्दात्साक्ष्ये अनृतवचनादिष्वपि । तथाह मनुः ( ११1८८ ) - ' उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । अपहृत्य च निःक्षेपं कृत्वा च खीसुहृद्वधम् ॥' इति । यत्र
For Private And Personal Use Only