________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [प्रायश्चित्ताध्यायः
व्यवहारे असत्यवचनेन प्राणिनां वधप्राप्तिस्तद्विषयमेतत् । प्रायश्चित्तस्यातिगुरुत्वात् । प्रतिरोधः क्रोधावेशः । निक्षेपश्च ब्राह्मणसंबन्धी । स्त्री चाहिताग्निभार्या पतिव्रतात्वादिगुणयुक्तोच्यते सवनस्था च । यथाहाङ्गिराः-आहितामेर्द्विजायस्य हत्वा पत्नीमनिन्दिताम् । ब्रह्महत्याव्रतं कुर्यादात्रेयीनस्तथैव च ॥' इति । 'सवनस्थां स्त्रियं हत्वा ब्रह्महत्याव्रतं चरेत् ॥' इति पराशरस्मरणात् ॥ एवंच सवनस्थाग्निहोत्रिण्यात्रेयीवधे ब्रह्महत्याप्रायश्चित्तातिदेशात्तव्यतिरिक्तस्त्रीवधस्य स्त्रीशूद्रविदक्षत्रवध इत्युपपातकमध्यपाठादुपपातकत्वमेव ॥ ननु ब्राह्मणो न हन्तव्य इत्यत्र निषेधेऽनुपादेयगतत्वेन लिङ्गवचनयोरविवक्षितत्वाद्राह्मणजातेश्व स्त्रीपुंसयोरविशेषात्तदतिक्रमनिमित्तप्रायश्चित्तविधेब्रह्महा द्वादशाब्दानीत्यस्योभयत्र प्राप्तत्वास्किमर्थं तथात्रेयीनिषूदक इत्यतिदेशवचनम् । उच्यते । सत्यपि ब्राह्मणत्वेऽनात्रेय्या वधस्य च महापातकप्रायश्चित्तनिराकरणार्थमतस्तस्योपपातकमध्य. पाठादुपपातकप्रायश्चित्तमेव । आतिदेशिकेषु च प्रायश्चित्तस्यैवातिदेशो न पातित्यस्य । अतः पतितत्यागादिकार्यमैत्र न भवति ॥ २५ ॥
चरेद्रतमहत्वापि घातार्थ चेत्समागतः।
द्विगुणं सवनस्थे तु ब्राह्मणे व्रतमादिशेत् ॥ २५२ ॥ किंच । यथावर्णमित्यनुवर्तते ब्राह्मणादिहनने कृतनिश्चयस्तद्व्यापादनार्थं स. म्यगागत्य शस्त्रादिप्रहारे कृते कथंचित्प्रतिघातादिप्रबन्धवशादसौ न मृतस्तदा अहत्वापि यथावर्ण ब्रह्महत्यादि व्रतं चरेत् । तथाच गौतमः-'सृष्टश्चेद्राह्मणवधे अहत्वापि' इति ॥ ननु हनने तदभावे चैकप्रायश्चित्तता न युक्ता । सत्यम् । अतएवौपदेशिकेभ्यो न्यूनत्वादातिदेशिकानां पादोनान्येव ब्रह्महत्यादिव्रतानि द्वादशवार्षिकादीनि भवन्ति । एतच्च प्रपञ्चितं प्राक् । किंच । यस्तु स. वनसंपाद्यं सोमयागमनुतिष्ठन्तं ब्राह्मणं व्यापादयति तस्मिन्द्वादशवार्षिकादिवतं द्विगुणं समादिशेत् । तेषां च व्रतानां गुरुलघुभूतानां जातिशक्तिगुणाद्यपेक्षया सत्यपि सवनस्थत्वस्याविशेषे पूर्ववदेव व्यवस्थावगन्तव्या । ब्रह्महत्यासमानां तु गुर्वधिक्षेपादीनामातिदेशिकेभ्योऽपि न्यूनत्वादोनं द्वादशवार्षिकादिप्रायश्चित्तमित्युक्तम् ॥ २५२ ॥
इति ब्रह्महत्याप्रायश्चित्तप्रकरणम् ॥ अथ क्रमप्राप्तं सुरापानप्रायश्चित्तं प्रक्रमते
सुराम्बुघृतगोमूत्रपयसामग्निसंनिभम् ।
सुरापोऽन्यतमं पीत्वा मरणाच्छुद्धिमृच्छति ॥ २५३॥ सुरादीनां मध्येऽन्यतममग्निसंनिभं क्वाथापादिताग्निस्पर्शदाहशक्तिकं कृत्वा पीत्वा सुरापो मरणाच्छुद्धिं प्राप्नोति । गोमूत्रसाहचर्याद्गव्ये एव घृतपयसी ग्राह्ये । घृतपयःसाहचर्याच्च स्त्रैणमेव गोमूत्रम् । एतच्चावाससा कार्यम् । - १ रविपर्ययात् ङ. २ कार्यमानं ङ.
For Private And Personal Use Only