________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता। सुराप आर्द्रवासाश्च अग्निवर्णी सुरां पिबेत्' इति पैठीनसिस्मरणात् । तथा 'लौहेन पात्रेण सुरापोऽग्निवर्णा सुरामायसेन पात्रेण तात्रेण वा पिबेत्' इति प्रचेतःस्मरणात् । एतच्च सकृत्पानमान्ने । 'सुरापानं सकृत्कृत्वाप्यग्निवर्णी सुरां पिबेत्' इत्यङ्गिरःस्मरणात् । यत्तु वसिष्ठवचनम्-'अभ्यासे तु सुरायाश्च अग्निवर्णी पिबेट्विजः' इति, तत्सुराव्यतिरिक्तमद्यपानविषयम् । एतच्च कामकारविषयम् ।-'सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् । मुखे तया विनिर्दिग्धो मृतः शुद्धिमवामुयात् ॥' इति बृहस्पतिस्मरणात् ॥ यत्तु (११॥ ९०)-'सुरां पीत्वा द्विजो मोहादग्निवर्णा सुरां पिबेत्' इति मनुना मोहनहणं कृतं तच्छास्त्रार्थापरिज्ञानाभिप्रायेण ॥ अत्रेदं चिन्तनीयम्-किं सुराशब्दो मद्यमान्ने रूढ उत तिसृष्वेव गौडीमाध्वीपैष्टीष्वाहोस्वित्पैष्ट्यामेवेति । तन्त्र केचिन्मद्यमाने रूढ इति वर्णयन्ति ।-'अभ्यासे तु सुरायाः' इति वासिष्ठे पैष्ट्यादित्रयव्यतिरिक्तेऽपि मद्यमाने सुराशब्दप्रयोगदर्शनात् । नचासौ गौणः प्र. योग इति शङ्कनीयम् । मदजननशक्तिमत्त्वोपाधिकतया सर्वत्र मुख्यत्वोपपत्तौ गौणत्वकल्पनाया अन्याय्यत्वादिति । तदयुक्तम् । पानसं द्राक्षं माधूकं खाजूंरं तालमैक्षवम् । मधूत्थं सैरमारिष्टं मैरेयं नालिकेरजम् ॥ समानानि विजानीयान्मद्यान्येकादशैव तु । द्वादशं तु सुरामयं सर्वेषामधमं स्मृतम् ॥' इति पुलस्त्येन मद्यविशेषत्वेन सुराया निर्दिष्टत्वात् । अतश्च मद्यमाने सुराशब्दप्र. योगो गौणः । अन्ये पुनः पैष्ट्यादिषु तिसृषु सुराशब्दस्य रूढिं मन्यन्ते । तथा हि । यद्यप्यनेकन सुराशब्दप्रयोगो दृश्यते तथापि कुत्रानादित्वमिति संदेहे (१११९४)-'गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा' इति मनुवचनाद्गुडमधुपिष्टविकारेष्वनादित्वनिर्धारणात्तत्रैव मुख्यत्वं युक्तम् । नचानेकत्र शक्तिकल्पना दोषः । मदशक्तरुपाधित्वाश्रयणेन तस्य सुपरिहरत्वात् । नच ता. लादिरसेष्वप्युपांधेर्विद्यमानत्वादतिप्रसङ्गः । पङ्कजादिशब्दवद्योगरूढत्वाश्रयणात्। अतश्व-'यथवैका तथा सर्वा न पातव्या द्विजोत्तमैः' इति तिसृणां सुराणां समानदोपत्वप्रतिपादनपरं न पुनरनयोौडीमाध्व्योः पैष्टीसुरासमत्वप्रतिपादनपरम् । द्विजोत्तमग्रहणं द्विजात्युपलक्षणम् । एतदप्ययुक्तम् । 'द्वादशं तु सुरामद्यं सर्वेपामधमं स्मृतम्' इति पुलस्त्यवचने गौडीमाध्वीभ्यामपि सुरामयेस्यातिरेकदर्शनात् । तथा (मनुः १०९३)- 'सुरा वै मलमन्नानां पाप्मा च मलमुच्यते' इति । अन्नविकारस्यैव सुरात्वनिर्देशादनशब्दस्य च 'भन्नेन व्यञ्जनम्' इत्यादिषु ब्रीह्यादिविकार एव प्रयोगदर्शनाद्गुडमधुनोश्च रसरूपत्वात्तथा सौत्रामणिग्रहेषु चानविकारे एव सुराशब्दस्य श्रुतत्वात् पैष्टयेव सुरा मुख्योच्यते । इतरयोस्तु सुराशब्दो गौणः । यत्तूक्तम्-'गौडी माध्वी' इति मनुवचनात्तिसृष्वप्यौत्पत्तिकत्व निर्धारणेति, तदप्ययुक्तम् । यतो नेदं शब्दानुशासनवच्छब्दार्थसंबन्धानादित्वप्रतिपादनपरं किंतु कार्यप्रतिपादनपरम् । अतो गुरुपाय
१ पाधिकत्वेन ग. २ नेकशक्ति ङ. ३ मद्यस्य व्यतिरेक ङ,
For Private And Personal Use Only