Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
सटीको वृत्तजातिसमुच्चयः [प्रथमो नियमः प्रयासेनेति । अतएव सत्स्वप्यन्यशास्त्रेषु तेषां वृथाविस्तरत्वादव्याप्तेश्चानेन निबद्धमिदमिति ॥२०-२२॥ : यदुक्तं सामान्येन प्रयोगो यत्र तत्र नरेन्द्रस्य [न] विधानमिति तस्यापवादमाहगाहाखंधअ इति।
गाहाखंधअगीईउवगीईगीइआण अ नरिंदो। चउमत्तंसअगणणागओवि विसमे ण ठाणम्मि ॥ २३ ॥ गाथास्कन्धकगीत्युपगीतिकानां नरेन्द्रः।
चतुर्मात्रांशकगणनागतोऽपि विषमे न स्थाने ॥ २३ ॥ अयं मध्यगुरुः गाथादीनां चतुर्मात्रगणनामध्यपतितोऽपि सामान्यसंज्ञा(ज्ञ)या विषमे स्थाने न विधेयः । विषमं यस्मादर्थे गीतिकासम्यग्भागो न लभ्यते(?) प्रथमतृतीयपञ्चमादि । पूर्वमेव प्रतिषिद्धस्यास्य वचनं समस्थाना(ने) विध्यर्थम् ॥ २३ ॥ उप(व)गीइ इति ।
उवगीइ(ई)रहिआण अ छटे ठाणम्मि दिज्जऍ दिओवि। . एआणं चिअ वसुहाहिवस्स दइए अलाहम्मि ॥ २४ ॥ उपगीतिरहितानां षष्ठे स्थाने दीयते द्विजोपि ।
एतेषामपि वसुधाधिपस्य दयितेऽलाभे ॥ २४ ॥ एतेषां गाथादीनां षष्ठे स्थानेऽवश्यं दीयते उपगीतिवर्जितानाम् । उपगीत्यां ति(हि) षष्ठे लघोविधानात् । तस्मिंश्च तेषां द्विजोऽपि दीयते सर्वलघुरपि दीयते सर्वलघुरपि क्रियते । तेन द्वयोवध(रेव:) विधानाद् द्विप्रभेदं तत्स्थानमिति ॥ २४ ॥ अस्मिन् सर्वलघौ षष्ठे सति विशेषमाह-छट्टिअ इति ।
छट्टट्रिअविप्पवरे पढमे वण्णम्मि कुणसु निच्चवअं। अह पंचमेवि बीए तो से परिहरसु मुहवन्नं ॥ २५ ॥ षष्ठस्थितविप्रवरे प्रथम वर्णे कुरु नित्यपदम् ।
अथ पञ्चमेऽपि द्वितीये ततोऽस्य परिहर मुष(ख)वर्णम् ॥ २५ ॥ ... एतेयौ(एतयोः) यदा षष्ठ(ठे) विप्रवरो हयति (भवति) तदास्य प्रथमे वर्णे कुरु नित्यपदं अवश्यतया तत्र पदसमाप्तिर्विधेया । चत्वारो वर्णाः साकल्येन तावत्तस्मिन् संभवन्ति । तत्र प्रथमे विच्छेदो विधेयः। यथा इह 'म्मि कुणसु' इति विप्रे सप्तम्यन्तस्य पदस्य विधानं दर्शितम् । अथवा द्वितीयेऽथ यदि पञ्चमस्थाने स्थितो भवति ततोऽस्य प्रवरवर्णं पूर्वपदेन सह वर्जयेत् । एतदुक्तं भवति । चतुर्थगणस्यान्ते पदसमाप्तिः कार्या द्विजे पञ्चमे सति । अनन्तरं पञ्चमे प्रथमपादे च (?) पदमारब्धव्यम् । इह यथा 'तो से' इति चतुर्थे गणे समाप्ते. 'परिहर' इति पञ्चमे पदस्यारब्धिर्दर्शिता ॥ २५॥ १ निच्चयनिवअं AB. २ गणपदस्यान्तसमाप्तिः AB.

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194