________________
पद्यानि ३९-४०] सटीको वृत्तजातिसमुश्चयः
प्रत्येकमंशकस्य यः स्वो विकल्पस्तेन तस्मिन्नष्टाङ्के उद्वृत्ते शोधिते सति विलोकनीयं यदि मुच्यते तदान्तिमं गणं सर्वलघु देहि । शेषे च स हि सरूपमेव । यद्येकः शिष्यते तदा प्रथमं द्वौ चेदन्तगुरुं तृतीये मध्यगुरुमादिगुरुं वा । किं च लब्धे शेषे एककादौ गणं देहि एकेनाधिकं भागहारिणं कुर्वित्यर्थः । यथा पूर्वोक्तायामेक(व) कोटिचतुष्टयमेकोनविंशतिर्लक्षाणि षण्णवतिसहस्राणि [षट्]षष्ट्यधिकानि च नवशतानीति नष्टाकं स्थापयित्वा केनचित्पृष्टे कीदृशमस्या रूपं अंशकानामिति । पश्चादयं राशिनिवेश्यः । अनन्तरं प्रथमांशानयने तदीयेन विकल्पेनोद्धरेत् । तदीयो विकल्पश्चतुष्कम् । कोटी(टिरेका लक्षचतुष्कं नवनवतिसहस्राणि द्वे च शते एकचत्वारिंशदधिके इत्यनेन चतुर्भागेन शोधनम् । शोधिते द्वौ शिष्येते यौ तत्परिमाणं द्वितीयमन्तगुरुं स्थापयेत् । उदा० I IS । अनन्तरं येनैव भागरूपमपहृतं (तत्) लब्धे शेषे गणं देहीति वचनात् सैकं कुर्यात् यथा तवाचत्वारिंशद्भवन्ति । अनन्तरं द्वितीयगणानयनावसरे यत्तद्भागापहारि सैकं कृतं तस्य द्वितीयस्वविकल्पेन पञ्चकेन [उद्धारे] विंशतिर्लक्षाणि नवनवतिसहस्राण्यष्टौ शतानि अष्टचत्वारिंशदित्यनेन पञ्चभागेन भागमपहृत्य द्वाववशिष्यते यौ तेत्स्वरूप एवान्तगुरुस्तत्र निवेश्यः । उदा० I I S । तस्मिन्सैककृते नवान्ते भवन्ति । अनन्तरं तृतीयावसरे तस्यानन्तरभागापहारिणः पञ्च लक्षाणि चतुर्विंशतिसहस्राणि द्वाषष्टय धिकानि नवशतानीत्यनेन चतुर्भागेपहृते एकस्मिन् शिष्टे तत्स्वरूपमेव तृतीये प्रथम द्विगुरुं कुर्यात् । उदा० Ss । भागापहारिणश्चान्ते द्वयोः सैकयोः कृतयोः त्रयोन्ते संपद्यन्ते । ततोपि
चतुर्थगणावसरे तस्य लक्षमेकं चत्वारिंशत्सहस्राणि नवशतानि द्विनवत्यधिकानीत्यनेन पञ्चभागेऽपढ़ते त्रिस्य शेषाच्चतुर्थे मध्यगुरुर्विनिवेश्यः । उदा० II S, HIS, S S, ISI | भागापहारी सैकः कार्यः यथावसाने त्रीणि भवन्ति । पश्चादपि पञ्चमावसरे तस्य षड्विंशतिसहस्राणि द्वे शते अष्टचत्वारिंशदधिके इत्यनेन चतुर्भागे हृते शिष्टादेकस्मात्प्रथमस्य तत्र स्थितिर्विधेया । उदाहरणम् I I S, I I S, S S, I SI, SS। अनन्तरं भागहारिणं सैकं कृत्वा षष्ठावसरे त्रयोदशसहस्राणि चतुर्विंशत्यधिकं शतं चेत्यनेन द्विभागेन षष्टसंभविना भागे हृते शिष्टे चैकस्मिन् तत्र प्रथमः षष्ठेति(पि) मध्यगुरुः । उदा० I I S, I I S, SS, I S I, S S, I SI । ततोपि तं सैकं निवार्य यथान्ते पञ्चानामवस्थानम् । सप्तमस्य चावसरे तस्यैकाशीत्यधिके द्वात्रिंशता शतैश्चतुर्भागे हृते शिष्टे चैकस्मिन् प्रथमं तत्र गणं [द्विगुरुं] कार्यम् । उदा० H I S, I I S, SS, I S I, S S, I S I, SS । अनन्तरमपि भार्गहारिण सैककृते निःसंशयत्वादष्टमे गुरुस्थितेर्नवमस्यावसरे तस्य शतान्यष्ट विंशतिश्चेत्यनेन चतुर्भागे कृते द्वयोश्च शेषत्वादन्तेगुरुं तत्र स्थापयेत् । पश्चादपि भागहारिणि सैके कृते दशमस्य चावसरे शतेन चतुःषष्टया पञ्चभागे हते शिष्टे चैकस्मिन्प्रथमस्तत्र कर्तव्यः । भागापहारी च सैकः कार्यः । उदा० II S, I IS, ss, IS I, SS, I S I, S S, S; I I S, SS । पश्चात्तस्याप्येकादशावसरे एकचत्वारिंशंता चतुर्भागे हृते शेषत्वाच्चैकस्य प्रथम एव धेयः । II S, IIS, SS, IS I, SS, I SI, SS, SI I, I I S, SS, SS। ततस्तस्यापि द्वादशावसरे सैकस्य अष्टभिः पञ्चभागापहरणाद् द्वयोश्च [शेषा]दन्तगुरोरेवाव
१ हृतं AB. २ तौस्व० AB. ३ लक्षणमेकं AB. ४ कत्त्य AB. ५ देकस्मिन् AB. ६ षष्ठे AB. ७ प्रथम मध्यमगुरुः AB. ८ तापहारिणि AB. ९ दनन्तरगुरुं AB.