Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 145
________________ १०० सटीको वृत्तजातिसमुञ्चयः षष्ठो नियमः नियताः । अनन्तरं सप्तत्रिंशद्वर्णेषु गुरुपरिमाणाद्विशतेः येन सप्तदश शिष्यन्ते ते लघवः । एवमस्यां सप्तत्रिंशद्वर्णायां विंशतिर्गुरवः सप्तदश लघव इति वक्तव्यम् । अन्येषामियमेव गतिः । यथा सुमनसः एकचत्वारिंशद्वर्णायाः 'कुण करकण्ण'इति प्रभेदे सामान्येन चास्याः षट्पञ्चाशन्मात्राः ताभ्यो वर्णपरिमाणे हृते पञ्चदश गुरवः शिष्यन्ते तेभ्यश्च षड्विंशतिर्लघव इति । एवमन्यत्रापि विधेयम् ॥४५॥ संख्यामाह- [अंतिमवण्ण इति । अंतिमवण्णे विउणं वण्णे वण्णे अ विउणअं कुणह । पायक्खरपरिमाणं संखाए एस णिद्देसो ॥४६॥ अन्तिमवर्णाद्विगुणं वर्णेवणे [च] द्विगुणं कु[रुत] । पादाक्षरपरिमाणं संख्याया एष निर्देशः ॥ ४६ ॥ सर्वस्यैव छन्दसो यत्पादे परिमाणमक्षराणां यथा व्यक्षरादीनां त्रिकादि तत्र योन्तिमो वर्णस्तद्विगुणीकृतं यावत्पादाक्षर[परि]माणं तावत्प्रत्येकवर्णे द्विगुणं कुर्यात् । एष संख्याया विधिः । यथा त्र्यक्षरस्य कियती संख्या भवतीति पृष्टे तस्यान्तिमे वर्णे तृतीयाक्षरे यथा द्विद्विको चतुर्थमिति(?) भवति । पश्चात्तृतीयमपि द्विगुणीकृत्याष्टके सति वक्तव्यं यथा त्र्यक्षरमष्टसंख्यमिति ॥ ४६॥ अस्यैव विच्छित्त्यन्तरमाह—एक्कक्खर इति । एक्कक्खरम्मि दुच्चिअ विउणा विउणा य सेसवण्णेसु । पत्थरिअव्वं छठए जावं ते होंति छब्बीसा ॥४७॥ एकाक्षरे द्वौवेव द्विगुणाश्च वर्णवृद्धया । प्रस्तरितव्यं तावद्यावत्ते भवन्ति षइविंशतिः ॥ ४७ ॥ अनया प्रक्रियया एकाक्षरे द्वावेव भवतः । अनन्तरं वर्णानामक्षराणां [वृद्धया] प्रस्तरितव्यं यावद् द्विगुणाः द्विगुणसंख्याया द्वात्रिंशद्भवन्ति) द्विगुणया द्विगुणा संख्या(?) षड्विंशतिर्भवन्ति । यथा ययक्षरे चत्वारत्यक्षरेष्टौ चतुरक्षरे षोडश इत्येवमाद्या वदन्ति ॥ ४७ ॥ तस्याः स्वयमेव प्रपञ्चमाह-चउसट्ठी इति । चउसट्ठी अट्ठसआ अट्ठसहस्सेगंसत्तरी लक्खा । सुन्दरि छक्कोडीओ उक्किइछंदम्मि संखाई । अंतोउँअरेणं चिअ दंडलभेआ विणिहिट्ठा ॥४८॥ चतुःषष्टिरष्टशतान्यष्टौ सहस्राण्येकसप्ततिर्लक्षाणि । सुन्दरि षटकोटय उत्कृतिछन्दसि संख्यायाः ॥ अतःपरेण मुग्धे दण्डकभेदा मन्तव्याः॥४८॥ १ एकोनचत्वारिंशत् B. २ सामान्यं नवार्याः ३ सप्तदश B. ४ तेभ्यश्चत्वारिंसति B. ५ वर्णपदे B. ६ त्रिंशदक्षरे B. ७ वण्णवण्णेसु B; यावसेवाणसुं A; वण्णवुड्डीए Com. ८ द्वयैव B. ९ अट्ठसहसाई सत्तरी AB. १. This - line is found at the end of v. 6o in both AB.

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194