________________
१०० सटीको वृत्तजातिसमुञ्चयः
षष्ठो नियमः नियताः । अनन्तरं सप्तत्रिंशद्वर्णेषु गुरुपरिमाणाद्विशतेः येन सप्तदश शिष्यन्ते ते लघवः । एवमस्यां सप्तत्रिंशद्वर्णायां विंशतिर्गुरवः सप्तदश लघव इति वक्तव्यम् । अन्येषामियमेव गतिः । यथा सुमनसः एकचत्वारिंशद्वर्णायाः 'कुण करकण्ण'इति प्रभेदे सामान्येन चास्याः षट्पञ्चाशन्मात्राः ताभ्यो वर्णपरिमाणे हृते पञ्चदश गुरवः शिष्यन्ते तेभ्यश्च षड्विंशतिर्लघव इति । एवमन्यत्रापि विधेयम् ॥४५॥ संख्यामाह- [अंतिमवण्ण इति ।
अंतिमवण्णे विउणं वण्णे वण्णे अ विउणअं कुणह । पायक्खरपरिमाणं संखाए एस णिद्देसो ॥४६॥
अन्तिमवर्णाद्विगुणं वर्णेवणे [च] द्विगुणं कु[रुत] ।
पादाक्षरपरिमाणं संख्याया एष निर्देशः ॥ ४६ ॥ सर्वस्यैव छन्दसो यत्पादे परिमाणमक्षराणां यथा व्यक्षरादीनां त्रिकादि तत्र योन्तिमो वर्णस्तद्विगुणीकृतं यावत्पादाक्षर[परि]माणं तावत्प्रत्येकवर्णे द्विगुणं कुर्यात् । एष संख्याया विधिः । यथा त्र्यक्षरस्य कियती संख्या भवतीति पृष्टे तस्यान्तिमे वर्णे तृतीयाक्षरे यथा द्विद्विको चतुर्थमिति(?) भवति । पश्चात्तृतीयमपि द्विगुणीकृत्याष्टके सति वक्तव्यं यथा त्र्यक्षरमष्टसंख्यमिति ॥ ४६॥ अस्यैव विच्छित्त्यन्तरमाह—एक्कक्खर इति ।
एक्कक्खरम्मि दुच्चिअ विउणा विउणा य सेसवण्णेसु । पत्थरिअव्वं छठए जावं ते होंति छब्बीसा ॥४७॥
एकाक्षरे द्वौवेव द्विगुणाश्च वर्णवृद्धया ।
प्रस्तरितव्यं तावद्यावत्ते भवन्ति षइविंशतिः ॥ ४७ ॥ अनया प्रक्रियया एकाक्षरे द्वावेव भवतः । अनन्तरं वर्णानामक्षराणां [वृद्धया] प्रस्तरितव्यं यावद् द्विगुणाः द्विगुणसंख्याया द्वात्रिंशद्भवन्ति) द्विगुणया द्विगुणा संख्या(?) षड्विंशतिर्भवन्ति । यथा ययक्षरे चत्वारत्यक्षरेष्टौ चतुरक्षरे षोडश इत्येवमाद्या वदन्ति ॥ ४७ ॥ तस्याः स्वयमेव प्रपञ्चमाह-चउसट्ठी इति ।
चउसट्ठी अट्ठसआ अट्ठसहस्सेगंसत्तरी लक्खा । सुन्दरि छक्कोडीओ उक्किइछंदम्मि संखाई । अंतोउँअरेणं चिअ दंडलभेआ विणिहिट्ठा ॥४८॥
चतुःषष्टिरष्टशतान्यष्टौ सहस्राण्येकसप्ततिर्लक्षाणि । सुन्दरि षटकोटय उत्कृतिछन्दसि संख्यायाः ॥ अतःपरेण मुग्धे दण्डकभेदा मन्तव्याः॥४८॥
१ एकोनचत्वारिंशत् B. २ सामान्यं नवार्याः ३ सप्तदश B. ४ तेभ्यश्चत्वारिंसति B. ५ वर्णपदे B. ६ त्रिंशदक्षरे B.
७ वण्णवण्णेसु B; यावसेवाणसुं A; वण्णवुड्डीए Com. ८ द्वयैव B. ९ अट्ठसहसाई सत्तरी AB. १. This - line is found at the end of v. 6o in both AB.