________________
पद्यानि ४१-४५]
सटीको वृत्तजातिसमुच्चयः वेदाश्चत्वारः । स्पष्टमन्यत् ॥४२॥ किंच । तिण्णं इति ।
ती(ति [f] हितो विउणा विगुणाओ वडिआ तहा वेआ। चउवण्णेसुवि विउणा विउणावि विवडिआ वे ॥४३॥
त्रयाणामस्माद्विगुणा द्विगुणेष्वपि वर्धितास्तदा वेदाः ।
चतुर्णां द्विगुणा द्विगुणैर्वर्धिताश्च वेदैः ॥ ४३ ॥ तस्माच्चतुष्कात् त्रयाणां लघवो द्विगुणौ अष्टौ भवन्ति । तेषु च वेदाश्चत्वारो वर्धिताः कार्याः । एवं द्वादश लघवो भवन्ति । हिन्तो अस्मात् । चतुरक्षरस्यास्मात् त्र्यक्षरलघुपरिमाणाः द्विगुणा लघुसंख्याः चतुर्विंशतिष्कार्याः । किंभूताः । वेदैश्चतुर्भिर्द्विगुणैः संवरि(लि)ताः । यथा चतुर्विंशतिरष्टौ चेति द्वात्रिंशल्लघवो भवन्ति ॥ ४३ ॥ एतदेवोपसंहरन्नपरेषामाह—एवं इति ।
एवं विउणाउच्चिअ बेचउहि वडिया मुणेअव्वा । लहुकिरिअत्तिअ जाव अ उक्किअ छंदं समत्तंसि(ति)॥४४॥
एवं द्विगुणाः सर्वे परिवय॑न्ते द्विगुणा द्विगुणैः ।
लघुक्रिया यावदेतदुत्कृतिछन्दः समाप्तमिति ॥ ४४ ॥ एवमनया प्रक्रियया सर्वे छन्दोविशेषलघवोऽनन्तरलघुपरिमाणविवक्षिताः द्विगुणीकृता अनन्तरवृद्धिविवक्षया द्विगुणैरेव परिवर्तते । यथा पश्चाक्षरे चतुरक्षरलघुपरिमाणं द्वात्रिंशद् द्विगुणीकृत्य चतुरक्षरस्यैव वृद्धया अष्टकेन द्विगुणीकृतया षोडशद्व(त)या स्थितया परिवर्ध्यन्ते । तेन चतुःषष्टिः षोडशभिः परिवृद्धया अँशीतिर्भवति । एवं षडक्षरस्य द्विनवत्यधिकं शतं लघुपरिमाणं कथनीयम् । एवमियं लघुक्रिया तावत् क्रियते यावदेतदुत्कृतिछन्दः षड्विंशत्यक्षरं समाप्तमिति ॥ ४४ ॥ अंशकवृत्तानामाह-काऊण इति ।
वित्तीण वण्णगणणं मत्ताओ हुअंति जाओ अहिआओ।। ते गुरुआ सेसा उण लहुआ सव्वासु जाईसु ॥४५॥
कृत्वा वर्णगणनं मात्रा भवन्ति या अधिकाः ।
ते गुरवः शेषाः पुनर्लघवः सर्वासु जातिषु ॥ ४५ ॥ सर्वासु लक्ष्म्याद्यासु जातिषु वर्णानामक्षराणां प्रथमं गणनां कृत्वा या मात्रा अधिका भवन्ति ते गुरवः तत्प्रमाणा गुरव इत्यर्थः । तेभ्यश्च गुरुभ्यः शिष्यन्ते ये वर्णास्ते लघव इति वाच्यम् । यथास्यामेव केनचित्पृष्टे कियन्तोस्य लघव इति । प्रथमं वर्णगणना कार्या । सप्तत्रिंशतो वर्णेभ्यश्च सप्तपञ्चाशतो मात्राभ्यो विंशतिः शिष्यन्ते यास्तत्परिमाणं गुरूणाम् । सर्वस्या एव गाथाया मात्राः सप्तपञ्चाशदेव १ तेतमम वआ AB. २ मस्माभिर्द्वि० A. ३ त्रिगुणीकृता AB. ४ स्रवीतिर्भवति AB. ५ काऊण Com. ६ अधेयाः B. ७ सर्वाद्याः B.