Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan

View full book text
Previous | Next

Page 143
________________ सटीको वृत्तजातिसमुच्चयः [षष्ठो नियमः स्थितिः । उदा० II S, IIS, SS, ISI, SS, I SI, S S, S; I I S, s s, SS, IIS । अनन्तरं त्रयोदशावसरे तस्य सैकस्य द्वाभ्यां च चतुर्भागापहरणादेकस्यविशिष्टत्वात्तत्र प्रथमस्यैवावस्थानम् । उदा० II S, IIS, SS, IS I, S S, I SI, S S, S; I I S, SS, SS, I IS, SS| तदपि सैकं कार्यम् । चतुर्दशस्य लघोः स्थितिर्निवाचनैव । ततश्च पञ्चदशावसरे त्रयश्च चतुर्णा भागं न च प्रयच्छन्तीति त्रयाणामेव शेषत्वादादिगुरोरेवावस्थानम् । षोडशगुरुरसंपाय एव । उदाहरणं IIS, IIS, SS, IS I, SS, I S I, S S, S; I I S, S S, SS, I I S, S S, I, S I I, S । अत्र सर्वशुद्धेरभावाद्विप्रस्याभावः । यस्मादुक्तं 'सुद्धे रासिंमि अंतिम कुणसु'इति । एवं चतुर्मात्रपञ्चमात्रादिगणविरचितानां सर्वेषामेव विध्यपवादौ विनिश्चित्य कार्यं यथा सुमनसः उद्दिष्टे प्रत्येकं पादे गणत्रयं गुरुश्च ये विहिताः तेषां गजाख्ययोश्चतुर्विकल्पत्वं सामान्यसंज्ञानिर्दिष्टत्वान्मध्यगुरोरभावात् । तृतीयं च तुरंगमाख्यं द्विविकल्पं कर्णकरवर्जनात् । चामरं चैकविकल्पमेवं पादचतुष्टयेपि विनिवेशात् षोडश योनिस्थानानि भवन्ति । तेषामन्त्यादारभ्य तथैव गुणनं शेषांशत्याग़श्च कार्यः । तथैव नष्टविधानम् । एवं नष्टोद्दिष्टविधिप्रकरणद्वयमुक्तम् ॥४०॥ इदानीं यदुक्तं 'तहेअ लहुकिरिअं' इति तदाह-छंदं जित्तिअ इति । वित्ते जित्तिअसंखा ठविऊण ठवेह वित्तपाअंकं । एएहिं अ गुणिएहिं अद्धण हुअंति गुरुलहुआ ॥४१॥ छन्दो यावत्संख्यं स्थापयित्वा स्थापय तस्य पादाकम् । . अनेनैव गुणितेनार्धेन भवन्ति गुरुलघवः ॥ ४१ ॥ प्रत्येकं छन्दो यावत्संख्यं यावत्परिमाणं भवति तत्र च संस्थापयित्वा तस्यैव पादपरिमाणेनाधोनिवेशितेन गुणितं च विधार्धिद्वयं तस्य कुर्यात् । कृते च तस्मिन् एकस्माल्लघूनां परिच्छेदो भवत्यन्य]स्माच्च गुरूणामिति । यथा त्र्यंतद्यदृष्टुं (?) कियन्ति लघून्यस्य कियन्त्यस्य च गुरूणीति । तस्य संख्यामष्टकं स्थापयित्वा पादपरिमाणेनानन्तरं त्रिकेण गुणयेत् । तेन गुणानां चतुर्विंशतौ स्थितायां अर्द्धद्वयं द्वादश वेति पश्चात्कृतं तत्परिमाण(णा) गुरखो लघवश्च कथनीयाः । यथैव तस्य द्वादश गुरवो लघवश्च द्वादशेति । एतत्पातालप्रस्तारे दर्शितमपि केवलप्रयोगार्थं पुनरुक्तम् ॥ ४१ ॥ पुनरपि भङ्गयन्तरेण लघुक्रियामाह-एक्कक्खर इति । एक्कक्खरपत्थारे मअच्छि एक्को अ होइ फरिसो अ। [बे]अक्खरपत्थारे वेआ फरिसा विणिदिट्ठा ॥४२॥ एकाक्षरप्रस्तारे मृगाक्षि एक एव भवति स्पर्शश्च । म्यक्षरप्रस्तारे वेदाः स्पर्शाः विनिर्दिष्टाः ॥ ४२ ॥ १ देवकस्य विशिष्टत्वात् AB. २ दन्तगुरौ० AB. ३ छंदं Com. ४ गुणिअ मुद्धेण AB. ५ गुणितमानेन AB. ६ विधायानद्वयं AB. ७ Portion from पातालप्रस्तारे to यथा (both inclu.) on p. IOI, 1. 20 is missing in A. C Vv. 42-44 are found at the end of the chapter after v. 62 in both A and B. But the Com. reads them at the proper place. ९ स्पृष्टा AB.

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194