Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
पद्यानि १२-१६]
सटीको वृत्तजातिसमुच्चयः
अस्यैव विशेषान्तरमाह —बीअद्धेसु इति ।
बीअद्धे कहिंचिअ दिज्जइ फरिसोवि अंतिमो छउए । तेणे पत्थारे वित्ताणं कीरए गणणा ॥ १४॥
द्वितीयार्थेषु क्वापि दीयते स्पर्शोऽप्यन्तिमच्छाते । तेनेयं प्रस्तारे वृत्तानां क्रियते गणना ॥ १४ ॥
1
1
पताकाप्रस्ताराणां यानि द्वितीयार्धानि भवन्ति तेषां क्वचित्स्पर्शेऽप्यन्तिमो दीयते । यथा त्र्यक्षरस्याष्टप्रभेदस्यान्ते चत्वारो लघवो यथा च षोडशप्रभेदस्य चतुरक्षरस्यान्तेऽष्टाविति । क्वचित्स्पर्शोऽपीति भङ्ग्या विपरीतपताकां दर्शयति । तेन क्वचिद्वितीयार्धेषु गुरवोऽपि दीयन्त एव । तत्र विपरीतः वैमणिमालाकारः प्रस्तारः कार्यो यथा प्रथमे आदौ गुरूणां स्थितिस्तद्वदिह लघूनां कार्येत्यर्थः । एवं किं संपद्यत इत्युक्तं तेन प्रयोगेणास्मिन्प्रस्तारे वृत्तानां गणना क्रियते । तेनेहापि सहार्थे तृतीया । एतदुक्तं भवति । लक्षे (क्ष्येण विना [न] लक्षणगतिर्निर्मला भवति यतः शिष्याणामतः पताकाप्रस्तारेण सह या गणना संख्या क्रियते सातिनिर्मला भवति लक्ष्यलक्षणयुक्ता ॥ १४ ॥
समुद्रमाह-रअणा इति ।
रअणाईं जहिच्छाइ ट्रुविउं मुद्धे ठवेह पत्थारं ।
ताव अ पिंडेअ [फुडं] फरिस सव्वे ठि जाव ॥ १५ ॥
रत्नानि यथेच्छया स्थापयित्वा मुग्धे स्थापय प्रस्तारम् ।
तावच्च पिण्डय स्फुटं स्पर्शाः सर्वे स्थिता यावत् ॥ १५ ॥
अत्र व्यवहितपदसंगतिः । हे मुग्धे प्रस्तारं स्थापयेति । तावच्च तं स्फुटं पिण्डय यावत् सर्वलघून्यायान्ति इति ॥ १५॥
सूत्रमात्रमेमत् । अस्यैव प्रपञ्चार्थमाह – पढम इति ।
८७
पढमचमरस्स हिट्टे फेरिसं पुरओ जहाकमेणेअ । मग्गे जे परिसिट्ठा कडअहिं तेहिं पूरेहि ॥ १६ ॥
प्रथमचरस्याधः स्पेर्शः पुरतो यथाक्रमेणैव । मार्गे ये परिशिष्टाः कटकैस्तान् पूरय ॥ १६ ॥
रत्नानि प्रथमं स्थापयित्वा कस्यचिच्छन्दसि पङ्क्तिक्रमेणानन्तरं तेषां यः प्रथमर्श्वमरो गुरुस्त - स्याधः स्पर्शो लघो(घु)र्विधेयः । तस्य पुरतोऽग्रे यथाक्रमेणैव प्रस्तारो विधेयः । यथैवोपरिपङ्क्तेर्गुरूणां लघूनामवस्थितिर्भवति तद्वदधो विनिवेशनीय इत्यर्थः । किंच । मार्गे पश्चाद्भागे ये परिशिष्टौ वर्णा
1
१ विपरीतरवि० AB. २ एवेक संपद्यते AB. ३ प्रवृत्तानां AB ४ लक्षणक्षणयुक्ता AB. ५ मुद्धेद्धे AB. ६ फुरिसा सम्वट्टि AB. ७ स्थापितं तु AB. ८ सर्वलघुनायात इति AB. ९ फुरिसं AB. १० चरमस्यार्धस्यस: AB. ११ श्वगुरुर्गुरु: AB. १२ परिशिष्या AB.

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194