SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ पद्यानि १२-१६] सटीको वृत्तजातिसमुच्चयः अस्यैव विशेषान्तरमाह —बीअद्धेसु इति । बीअद्धे कहिंचिअ दिज्जइ फरिसोवि अंतिमो छउए । तेणे पत्थारे वित्ताणं कीरए गणणा ॥ १४॥ द्वितीयार्थेषु क्वापि दीयते स्पर्शोऽप्यन्तिमच्छाते । तेनेयं प्रस्तारे वृत्तानां क्रियते गणना ॥ १४ ॥ 1 1 पताकाप्रस्ताराणां यानि द्वितीयार्धानि भवन्ति तेषां क्वचित्स्पर्शेऽप्यन्तिमो दीयते । यथा त्र्यक्षरस्याष्टप्रभेदस्यान्ते चत्वारो लघवो यथा च षोडशप्रभेदस्य चतुरक्षरस्यान्तेऽष्टाविति । क्वचित्स्पर्शोऽपीति भङ्ग्या विपरीतपताकां दर्शयति । तेन क्वचिद्वितीयार्धेषु गुरवोऽपि दीयन्त एव । तत्र विपरीतः वैमणिमालाकारः प्रस्तारः कार्यो यथा प्रथमे आदौ गुरूणां स्थितिस्तद्वदिह लघूनां कार्येत्यर्थः । एवं किं संपद्यत इत्युक्तं तेन प्रयोगेणास्मिन्प्रस्तारे वृत्तानां गणना क्रियते । तेनेहापि सहार्थे तृतीया । एतदुक्तं भवति । लक्षे (क्ष्येण विना [न] लक्षणगतिर्निर्मला भवति यतः शिष्याणामतः पताकाप्रस्तारेण सह या गणना संख्या क्रियते सातिनिर्मला भवति लक्ष्यलक्षणयुक्ता ॥ १४ ॥ समुद्रमाह-रअणा इति । रअणाईं जहिच्छाइ ट्रुविउं मुद्धे ठवेह पत्थारं । ताव अ पिंडेअ [फुडं] फरिस सव्वे ठि जाव ॥ १५ ॥ रत्नानि यथेच्छया स्थापयित्वा मुग्धे स्थापय प्रस्तारम् । तावच्च पिण्डय स्फुटं स्पर्शाः सर्वे स्थिता यावत् ॥ १५ ॥ अत्र व्यवहितपदसंगतिः । हे मुग्धे प्रस्तारं स्थापयेति । तावच्च तं स्फुटं पिण्डय यावत् सर्वलघून्यायान्ति इति ॥ १५॥ सूत्रमात्रमेमत् । अस्यैव प्रपञ्चार्थमाह – पढम इति । ८७ पढमचमरस्स हिट्टे फेरिसं पुरओ जहाकमेणेअ । मग्गे जे परिसिट्ठा कडअहिं तेहिं पूरेहि ॥ १६ ॥ प्रथमचरस्याधः स्पेर्शः पुरतो यथाक्रमेणैव । मार्गे ये परिशिष्टाः कटकैस्तान् पूरय ॥ १६ ॥ रत्नानि प्रथमं स्थापयित्वा कस्यचिच्छन्दसि पङ्क्तिक्रमेणानन्तरं तेषां यः प्रथमर्श्वमरो गुरुस्त - स्याधः स्पर्शो लघो(घु)र्विधेयः । तस्य पुरतोऽग्रे यथाक्रमेणैव प्रस्तारो विधेयः । यथैवोपरिपङ्क्तेर्गुरूणां लघूनामवस्थितिर्भवति तद्वदधो विनिवेशनीय इत्यर्थः । किंच । मार्गे पश्चाद्भागे ये परिशिष्टौ वर्णा 1 १ विपरीतरवि० AB. २ एवेक संपद्यते AB. ३ प्रवृत्तानां AB ४ लक्षणक्षणयुक्ता AB. ५ मुद्धेद्धे AB. ६ फुरिसा सम्वट्टि AB. ७ स्थापितं तु AB. ८ सर्वलघुनायात इति AB. ९ फुरिसं AB. १० चरमस्यार्धस्यस: AB. ११ श्वगुरुर्गुरु: AB. १२ परिशिष्या AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy