________________
८६
सटीको वृत्तजातिसमुच्चयः
[षष्ठो नियमः लक्षणं तेन प्रस्तारपातगणना लभ्यत एव । यस्मात्सूच्या एषोऽनुहरति सादृश्यं भजते । सूचीनां हि समुदायो मेरुः तेन सूच्यास्त्वैकस्य छन्दसो लघुक्रियादयो लभ्यन्ते मेरोस्तु सर्वेषामपि । न केवलं प्रस्तारपातगणनादि परीक्षा तु (च.) निवेश्य सर्वकोष्ठकेषु कार्या ॥११॥ अनयोरेव मन्दमतिबोधनार्थमाह-सागर इति ।
साअरवण्णे अंको दोच्चि गरुआ अ मज्झिमट्टाणे। समरे उण एकोच्चिअ मेरुम्मि तहेव सूईएँ ॥ १२ ॥
सागरवर्णेऽङ्को द्वावेव गुरू मध्यमस्थाने ।
समरे पुनरेक एव मेरौ तथैव सूच्याम् ॥ १२ ॥ सागरवणे विषमाक्षरे छन्दसि द्वावङ्कौ गुरू संपद्येते प्रस्तारद्वयेपि । यथा त्र्यक्षरे द्वौ त्रिको पञ्चाक्षरे द्वौ दशकाविति । समरे समाक्षरे पुनः एक एव यथा यक्षरे द्वौ चतुरक्षरे षडिति ॥१२॥ पताकामाह-मणिरव इति ।
मणिरवमालाआरो विउणेविउँणेहि वडिओ कमसो। रइअन्वो पत्थारो णिहणद्धमणीरवंद्धो य ॥ १३ ॥
मणिरवमालाकारो द्विर्गुणद्विगुणैर्वर्धितः मशः।
स्थापयितव्यः प्रस्तारो निधनार्धमणीरवाँर्धश्च ॥ १३ ॥ प्रस्तारः स्थापयितव्यः । किंभूतः मणिरवैर्गुरुलघुभिर्ध्वक्रमेण मालाकारः स्रगाकृतिः । यथा हि माला सितासितादिभिः कुसुमैर्बध्यते तद्वदस्मिन्प्रस्तारेऽपि प्रथमं गुरुः पश्चाल्लघुः पुनर्गुरुः पुनरपि लघुरिति विनिवेश्यः । किंभूतः । क्रमशः परिपाट्या द्विगुणद्विगुणैर्वर्धितः द्विगुणीकृत्य वर्धयेदित्यर्थः । लुप्(ल्यब् )लोपेत्र पञ्चमी । यथा यथा क्रमेणाक्षराणां वृद्धिर्भवति उक्तात्युक्तमित्यादि मध्यमादिवशात्तथा तथा तस्माद् द्विगुणीकृताद्गुरूणां लघूनां चाग्रे द्विगुणा द्विगुणा वृद्धिः कार्या । यथा प्रथममेकाक्षरे एको गुरुरेकश्च लघुरिति प्रस्तारे स्थिते यक्षरावसरे तदेव द्विगुणीकार्य यथा गुरुर्लघुरिति भवति । पश्चात् तस्माद् द्विगुणैरेव तदपेक्षं वर्धनीयम् । यथारे द्वौ गुरू द्वौ लघू च संपद्यते । उदा० sS; I S; S I; II। अनन्तरं त्र्यक्षरप्रसंगे यक्षरं द्विगुणीकार्यम् अष्टकृत्वः स्थापनीयम् । तस्माच्च गुरुलघूनां तद्वद् द्विगुंणा स्थितिः कार्या । यतोऽये गुरुचतुष्कं लघुचतुष्कं भवति । उदाहरणं S S S; I S S; S I S; IIS; S S I; I S I; S I I; I II । एवं द्विगुणीकृतान् द्विगुणीकृतान् प्रस्तारान् कृत्वा द्विगुणद्विगुणवृद्धया च गुरुलघूनां सर्वेषु छन्दःसु क्रमेण स्थितिरभ्यूह्या । एतदेव स्पष्टीक्रियते । निर्धनार्धमणी वार्धश्चेति । निधनेऽन्ते अर्धानि मणयो गुरवो यस्य तथा निधन एवार्धानि रवाणि यस्य स तथा । सर्वस्यैव च्छन्दसि पूर्वक्रमेण मालाकारस्य स्थापितस्यान्तेऽर्धानि गुरवो भवन्ति अर्धानि च लघव एव इत्यर्थः ॥ १३॥ १ संका A; झंका B. २ दोवि गअआ अ मज्झिमट्ठाए AB. ३ मगम्मि तहा सूईअ AB. ४ हिविओणेसु वट्रिमो AB. ५ णवद्धो अ AB. ६ द्विगुणत्रिगुणैववितक्रमस: AB. ७ रवधश्च AB. ८ त्रिगुणा AB. ९ सुक्रमेण repeated immediately AB. १० विधानवसरवीरर्धावश्चेति AB. ११ विधनरेवार्धाणि AB. १२ अपाणि चल एव इस्य:AB.