________________
८८
सटीको वृत्तजातिसमुच्चयः
[ षष्ठो नियमः -
स्तान् कटकैर्गुरुभिः पूरय । यथा त्र्यक्षरस्य तृतीयपञ्चमसप्तमप्रभेदेषु प्रथमस्य गुरुत्रयरूपस्याधस्ताद्योऽसौ द्वितीयः प्रथमलघुः प्रभेदः 'पढमचमरस्य हिट्टे 'त्यादिना परिकल्पितैः तस्याधस्तृतीये प्रभेदे द्वितीये प्रथमर्गुरोरधस्ताल्लधौ कृते तस्यानन्तरं पुनः ' जहौकमेणे 'ति गुरौ विनिवेशिते यक्षरता संपद्यते । तदर्थमेतदुक्तं ‘मग्गे जे परिसिट्ठा' इति । तेनास्मिन् तृतीये द्वितीये तृतीये लघुगुरू स्थापयित्वा यः प्रथमोऽक्षरः शिष्यते तत्र कटि (ट) को गुरुः कर्तव्यः । एवं मध्यलघुप्रभेद आर्यांतः । पञ्चमेऽप्येवं चतुर्थ - प्रभेदान्त्यस्य गुरोरधः परिकल्पितो यो लघुस्तस्य मार्गे यदक्षरद्वयं शिष्यते तत्र गुरुद्वयं स्थापनीयम् । अनेनान्तलघुप्रभेदो भवति॥ उदाहरणम् – SSS; ISS; SIS; IIS; SSI; ISI; SII; III ॥ १६ ॥ किंच
1
एकम्मिवि पत्थारे पत्थारा बहुअरा विणिद्दिट्ठाँ ।
मग्गट्टिआ वि तत्थवि छउओअरि तुज्झ वोच्छामि ॥ १७ ॥
एकस्मिन्नपि प्रस्तारे प्रस्तारा बहुतरा विनिर्दिष्टा ।
मार्गस्थितास्तथापि छातोदरि तानहं वक्ष्यामि ॥ १७ ॥
अस्मिन्समुद्रप्रस्तारे एकस्मिन्नपि बहुतराः प्रस्तारा विनिविष्टाः तांश्च मार्गेऽध्वनि स्थितान्
कथयामि ॥ १७ ॥
तानाह— अट्ठक्खर इति ।
अट्ठक्खरपत्थारे उत्ताईओ हुअंति सव्वे अ । विह[ई]छंदम तहा पत्थारो नवविहो होइ ॥ १८ ॥ एए सव्वे छंदा उक्किइछंदमि होन्ति पत्थारे । मइ भणिआ जुत्तीए लक्खिजें बुहा पअत्तेण ॥ १९ ॥
अष्टाक्षरप्रस्तारे उक्तादयो भवन्ति सर्वाण्येव । बृहतीच्छन्दसि तथा प्रस्तारो नवविधो भवति ॥ १८ ॥
एतानि सर्वाणि च्छन्दांस्युत्कृतिच्छन्दसि भवन्ति प्रस्तारे । या भणितानि युक्त्या लक्षय त्वं प्रयत्नेन ॥ १९ ॥
अष्टाक्षरे एकाक्षरादयः सर्व एवान्तर्भवन्ति । एतच्च पताकायां दर्शितं ध्रुवम् । एवं बृहत्यां नवविधस्य प्रस्तारस्यान्तर्भावोऽन्वेष्यः । तथोत्कृतौ सर्वेषामेवेति मया भणितानि युक्त्या । साच युक्तिर्भग्या पताका [या]मेव दर्शिता । त्वं तु प्रयत्नेनाभियोगेन लक्षय जानीहि ॥ १८-१९॥
इदानीमतिदेशद्वारा मात्रानामाह – एसोच्चिअ इति ।
१ गुरुत्रयस्यरूप० AB. २ इहह AB. ३ परिकल्पितस्यार्धस्तृतीये AB. ४ प्रथमगुरुरथ० AB ५ जाहाकोपेनेति AB. ६ आम्नाद्य: AB. ७ बहुअहा विणिदिट्ठा AB. ८ तहावि Com ९ स्थितायां AB. १० लक्खिज्जसु तं पअत्तेण Com, ११ गम्या A; भम्या B. १२ मभिदेसंद्धारो AB.