________________
८०
सटीको वृत्तजातिसमुच्चयः
तस्मात्कुर्यात्तुं मुक्तं शशिमुखि पटहं रत्नं च निधने एतद्वृत्तस्वरूपं बुधजनदयितं ख्यातं परमकम् ॥ ४३ ॥ मुक्तादिरत्नसहितौ पयोधेर[रसौ] तथैव सुभगे
माणिक्यरूपचरणं ध्वजं च सहसा निवेश्य सरवम् । ग्रैवेयकं नियमितं वरोरु रचयेत्सदा सपटहं
अन्ते च नूपुरयुतं शशाङ्कवदने शशाङ्कचरितम् ॥ ४४ ॥ मुक्तायुग्मं सरत्नं मुकुटमपि भवेद्वैजयन्ती सहारा
स्पर्शं रूपं सभावं सुतनु कतलं वीक्षसे पङ्कजाक्षि । नागानां चाप्यमित्रं पुनरपि कटकं रूपकर्णैकैयोगि
पादें तन्वङ्गि यस्याः प्रचरति सुभगे स्रग्धरानाम वृत्तम् ॥ ४५ ॥ चामररूपयुग्मैकटकं शशाङ्कवदने ध्वजं च सरवं
शब्दविभूषितं च नृपतिं समीक्ष्य दयिते पुनः सकटकम् । स्थापय शब्दभावचमरं च शब्दसहितं माणं च विमलं
पन्नर्गयुक्तमन्तचरितं वरोरु सुभगे विशुद्धचरितम् ॥ ४६ ॥ द्विजगणरत्नरूपचमरं शशाङ्कवदने विमलश्चं रसो
नरपतिरत्नयुक्तेपटहो मृगाक्षि सुभगे यदि वै परतः । पुनरपि मेखला पतिता नताङ्गि विरमे करपल्लवकौ
कविवरपन्नगेन्द्ररचिता सदा प्रियतमे हयलीलांङ्गी ॥ ४७ ॥ चामरभावौ सललितगमने रत्नमतः शशिमुखि चरणश्च
शब्दसमेतौ रसरवसहितौ हारमणी वरतनु कुलभद्रे । भामिनि हस्तं पुनरपि दयिते विप्रकरं यदि भवति समेतं तस्य तु रत्नं पुनरपि ललितं वृत्तमिदं वरतनु किल तन्वी ॥ ४८ ॥ चामररूपे शब्दसमेते पुनरपि वरतनु सललितचमरं
पश्यसि बाले रत्नमतो वै वरतनु शशिमुखि सुमधुर कटकम् । रूपसमुक्तं वै ध्वजरत्नं भवति [हि] मृदुर्घनॅविपुलकुचयुगे
क्रौञ्चपदी [वै] त्रिद्विजयुता विरचितकरतलनियमितविरमा ॥ ४९ ॥
[पञ्चमो नियमः
१ कुर्यान्मुक्तां AB. २ पयोधरौ AB. ३ तवैव B. ४ करतं AB. ५ ०कर्णैकजोगि AB. ६ स्वचरति B. ७० युग्मं • सकटकं AB.; ८ पन्नगैर्युक्त B; पन्नगे युक्त. A. ९ विमलस्वरस: AB. १० Before this line both A and B read वरतनुपिंडितैः सुरचिता. ११ युक्तं पटहो AB. १२ हयलीलागतो B. १३ श्रवणश्च AB. १४ कुभभद्रे AB. १५ भावय भामिनि AB. १६ भवरि AB. १७ मृदुपान० AB. १८ द्वित्रिजयुक्ता AB. १९ विरामा AB.