Book Title: Vruttajatisamucchaya
Author(s): H D Velankar
Publisher: Rajasthan Prachyavidya Pratishtan
View full book text
________________
पचान १-८] सटीको वृत्तजातिसमुच्चयः
उक्त तथारयुक्तं मध्यमसहिते प्रतिष्ठसुप्रतिष्ठे । गायत्र्युष्णिहौ तथानुष्टुप् बृहतीपङ्क्तित्रिष्टुप् जगत्यतिजगती ॥ ४ ॥ शक्वरी तथातिपूर्वा अष्टिः अत्यष्टिकृत्यतिकृती।
कृतिप्रकृत्याकृतिर्विकृतिः संपर्यभिकृत्युत्कृतिसहितानि षड्विंशतिश्छन्दांसि ॥ ५ ॥ एकाक्षरात्प्रभृति षड्विंशत्यक्षरं यावत् उक्तादीनि च्छन्दांसि भवन्ति । एकाक्षरस्योक्तं नाम धक्षरस्यात्युक्तं एवं यावत् षड्विंशत्यक्षरस्योत्कृतिरिति । त्रिष्टुप्जगत्यतिजगतीति समाहारद्वन्द्वः बृहत्यादिप्रकृत्यन्तस्तावत् । एवं संकृत्यादि । प्रथमं शक्वरीत्यस्यानन्तरमतिपूर्व सैव पृथक् ॥५॥ एतेषामुद्देशपूर्वकं प्रस्तारानाह—सूई इति ।
सूईमेरुपडाआसमुद्दविवरीअजलहिपाआला। तह संवलिपत्थारो सहिओ विवरीयसंवलिणा ॥६॥ सूचिर्मरुपताकासमुद्रविपरीतजलधिपातालाः ।
तथा शाल्मलिप्रस्तारः सहितो विपरीतशाल्मलिना ॥६॥ एतेषां यथोद्देशं लक्षणमाह—पमुहंते इति ।
पमुहंते एकेकं तह विअ मज्झमि एकमन्भहि। पमुहाओ आरहिअ व ते सव्वअंकाई ॥७॥
प्रमुखेन्ते च एकैकं तथैव मध्य एकमभ्यधिकम् ।
प्रथमादारभ्य वर्धन्ते सर्वाङ्काः ॥ ७ ॥ सर्वस्यैव छन्दसि ऊर्ध्वक्रमेण प्रमुख तथावदा(सा)ने एकमेकमङ्कान् स्थापयत । तथैव मध्येप्येकमेकं एककं च तत्राभ्यधिकं तदपेक्षं स्थापनीयम् । एतदुक्तं भवति-वृत्तस्य यावन्त्यक्षराणि तावन्त्येवैककान्येकाधिकानि विनिवेशनीयानि । यथा त्र्यक्षरस्य चत्वारि, चतुरक्षरस्य पञ्चेति । एवं यावत् षड्विंशत्यक्षरस्य सप्तविंशतिः । पश्चात्प्रमुखादारभ्य सर्वाङ्का वर्धन्ते ॥७॥ कथमित्याह—इकेकेणअ इति ।
एक्केकेण भइज्जइअंते उअरिट्रिओ तह च्चे। परिवाडीए मुंचह एकेकं सूइपत्थारे ॥ ८॥
एकैकेन भज्यते उपरिस्थितं तथैव ।
परिपाच्या मुचैकैकं सूचिप्रस्तारे ॥ ८॥ आस्ते [१] मध्ये योङ्कः स परिपाट्या भज्यते [उपरिस्थितं च] प्रत्येक परिपाट्या मुच्यते । यथा त्र्यक्षरस्य चतुर्वैकैकेषु प्रथमेनैकैकेन मध्यमनन्तरं भज्यते । तेनापि द्वितीयेन तृतीयं चतुर्थ तु मुंध्यते । उपरिस्थितेः । एवं प्रथममेककद्विकत्रिकैककाङ्कोपलक्षिता पङ्क्तिः संपद्यते । (१,२,३,१)।
१ Words एकाक्षरात् to यावत् are repeated between छन्दांसि and भवन्ति AB. ३ एकैकेनेन भियते A; एकैकेन न भज्यते B. ३ पंचैककं AB. ४ क्वचित् प्रस्तारो AB. ५ भिद्यते A. ६ चतुर्थतृतीयंतमुत्पद्यते AB.

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194