________________
षष्ठो नियमः ।
इदानीं उक्तं 'कथयामि षट् प्रत्ययांस्तथा' इति तदाह - - जो (जे) पिंगलेन इति । जे पिंगलेण भणिआ वासुइमंडव्वछंद आरेहिं । त[त्तो] थोवं वोच्छे छउओअरि छप्पआरेवि ॥ १ ॥ ये पिङ्गलेन भणिता वासुकिमाण्डव्यच्छन्दस्काराभ्याम् । ततः स्तोकं वक्ष्यामि छातोदरि षट्कारैः ॥ १ ॥
स्पष्टम् ॥ १ ॥
के ते षट् प्रकारा इत्याह- पत्थारा इति ।
पत्थारे जे सव्वे ण ुद्दिट्ठं तहा अ लहुकिरिअं ।
संखं अद्धाणं विअ छउओअरि तं फुडं भणिमो ॥ २ ॥ प्रस्तारा ये सर्वे नष्टोद्दिष्टं तथैव लघुक्रियाम् ।
संख्यामध्वानं चैव छतोदरि तत्स्फुटं भणामः ॥ २ ॥
नष्टोद्दिष्टमित्येकवद्भावः । लघुक्रिया उपलक्षणम् । गुरुक्रिया[ या ] अपि विधानात् ॥ २ ॥ किमेभिः प्रत्ययैः कथितैः प्रयोजनमित्याह — उत्ताईणं इति ।
उत्ताइणं मज्झे वित्ता उण थोवआ मए भणिया । जुत्तीए पत्थारे छउओअरि तुज्झ वोच्छामि ॥ ३ ॥ उक्तादीनां मध्ये वृत्तानि पुनः स्तोकानि मया भणितानि । युक्त्या प्रस्तारं छातोदरि तव वक्ष्यामः ॥ ३ ॥
उक्तसंज्ञा एकाक्षरस्य तदादिर्येषां तान्युक्तादीनि षड्विंशतिश्छन्दांसि तेषां मध्ये मया वृत्तानि स्तोकानि महाकविप्रबन्धसुप्रसिद्धानि अभिहितानि । इदानीं तु तानि युक्त्या कथयामि येनाल्पेनैव ग्रन्थेन निःशेषव्याप्तिर्घटते ॥ ३ ॥
आदौ तावत्तेषां नामान्याह — उत्तात इति ।
उर्त्तं अतिउत्तमज्झा पइट्ठसुपट्टु तह य गाइत्ती । उणी अणुभ विहई पंती तिहुजगइअइजगई ॥ ४ ॥ सक्कार अइसक्करिया अट्ठी अइअट्ठि घिइअअइघिइऊ । किइ पाविसमभिउप्पर किई य छव्वीस छंदाई ॥ ५ ॥
१ छप्पआरेहिं Com. २ वर्णातोदरि AB. ३ In the text vv. 2 and 3 are interchanged. I have followed the order of the Com. ४ उक्तसंज्ञाकैक्षरस्य AB. ५ उक्ता ततोति AB. ६ Something corresponding to these stanzas (which I have practically reproduced from Kavidarpana ch. 3) seems to have been read by the Com. But the text does not contain them.