SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पचान १-८] सटीको वृत्तजातिसमुच्चयः उक्त तथारयुक्तं मध्यमसहिते प्रतिष्ठसुप्रतिष्ठे । गायत्र्युष्णिहौ तथानुष्टुप् बृहतीपङ्क्तित्रिष्टुप् जगत्यतिजगती ॥ ४ ॥ शक्वरी तथातिपूर्वा अष्टिः अत्यष्टिकृत्यतिकृती। कृतिप्रकृत्याकृतिर्विकृतिः संपर्यभिकृत्युत्कृतिसहितानि षड्विंशतिश्छन्दांसि ॥ ५ ॥ एकाक्षरात्प्रभृति षड्विंशत्यक्षरं यावत् उक्तादीनि च्छन्दांसि भवन्ति । एकाक्षरस्योक्तं नाम धक्षरस्यात्युक्तं एवं यावत् षड्विंशत्यक्षरस्योत्कृतिरिति । त्रिष्टुप्जगत्यतिजगतीति समाहारद्वन्द्वः बृहत्यादिप्रकृत्यन्तस्तावत् । एवं संकृत्यादि । प्रथमं शक्वरीत्यस्यानन्तरमतिपूर्व सैव पृथक् ॥५॥ एतेषामुद्देशपूर्वकं प्रस्तारानाह—सूई इति । सूईमेरुपडाआसमुद्दविवरीअजलहिपाआला। तह संवलिपत्थारो सहिओ विवरीयसंवलिणा ॥६॥ सूचिर्मरुपताकासमुद्रविपरीतजलधिपातालाः । तथा शाल्मलिप्रस्तारः सहितो विपरीतशाल्मलिना ॥६॥ एतेषां यथोद्देशं लक्षणमाह—पमुहंते इति । पमुहंते एकेकं तह विअ मज्झमि एकमन्भहि। पमुहाओ आरहिअ व ते सव्वअंकाई ॥७॥ प्रमुखेन्ते च एकैकं तथैव मध्य एकमभ्यधिकम् । प्रथमादारभ्य वर्धन्ते सर्वाङ्काः ॥ ७ ॥ सर्वस्यैव छन्दसि ऊर्ध्वक्रमेण प्रमुख तथावदा(सा)ने एकमेकमङ्कान् स्थापयत । तथैव मध्येप्येकमेकं एककं च तत्राभ्यधिकं तदपेक्षं स्थापनीयम् । एतदुक्तं भवति-वृत्तस्य यावन्त्यक्षराणि तावन्त्येवैककान्येकाधिकानि विनिवेशनीयानि । यथा त्र्यक्षरस्य चत्वारि, चतुरक्षरस्य पञ्चेति । एवं यावत् षड्विंशत्यक्षरस्य सप्तविंशतिः । पश्चात्प्रमुखादारभ्य सर्वाङ्का वर्धन्ते ॥७॥ कथमित्याह—इकेकेणअ इति । एक्केकेण भइज्जइअंते उअरिट्रिओ तह च्चे। परिवाडीए मुंचह एकेकं सूइपत्थारे ॥ ८॥ एकैकेन भज्यते उपरिस्थितं तथैव । परिपाच्या मुचैकैकं सूचिप्रस्तारे ॥ ८॥ आस्ते [१] मध्ये योङ्कः स परिपाट्या भज्यते [उपरिस्थितं च] प्रत्येक परिपाट्या मुच्यते । यथा त्र्यक्षरस्य चतुर्वैकैकेषु प्रथमेनैकैकेन मध्यमनन्तरं भज्यते । तेनापि द्वितीयेन तृतीयं चतुर्थ तु मुंध्यते । उपरिस्थितेः । एवं प्रथममेककद्विकत्रिकैककाङ्कोपलक्षिता पङ्क्तिः संपद्यते । (१,२,३,१)। १ Words एकाक्षरात् to यावत् are repeated between छन्दांसि and भवन्ति AB. ३ एकैकेनेन भियते A; एकैकेन न भज्यते B. ३ पंचैककं AB. ४ क्वचित् प्रस्तारो AB. ५ भिद्यते A. ६ चतुर्थतृतीयंतमुत्पद्यते AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy