________________
सटीको वृत्तजातिसमुच्चयः
षष्ठो नियमः द्वितीये तु परिपाट्या उपरिवर्ती तृतीयो न भज्यते । तेन प्रथमेन द्वितीयस्यैव भेदो एककैत्रिकत्रिकैककाङ्कोपलक्षिता पक्तिर्भवति । (१,३,३,१)। पश्चात्परिपाट्या द्वितीयमुपरिस्थितं भवति उपरिभवस्थानद्वय(या ?)योगात् । तन्मोक्षाच्च तत्सेरूपैवावस्थितिः ॥ ८॥ एतदेव स्पष्टीकरोति-तं पिडिज्जउ णिउणं इति ।
तं पिंडिज्जैड निउणं जाव अ बीओवि आगओ ठाणो।
तत्पिण्ड्यतां निपुणं यावद् द्वितीयमप्यागतं स्थानम् । इति । विस्पष्टार्थमिदम् । एवं चतुरक्षरादीनां गतिरभूह्या । किमिहास्मिन् सूचिप्रस्तारे संपद्यत इत्याह-पत्थार इति ।
पत्थारपाअगणणा लहुकिरिआ लंभए संखा ॥९॥
प्रस्तारपातगणना लघुक्रिया लभ्यते संख्या ॥९॥ एतस्मिन् क्रियमाणे प्रथमं प्रस्तारपातगणना लभ्यते । पातनं पातः । प्रस्ताराणां पातः प्रस्तारपातः । वक्ष्यमाणन्यायेन अन्येषामप्यन्तःप्रवेश इत्यर्थः । 'एकम्मिवि पत्थारे पत्थारा [बहुअरा] विणिहिट्ठा' (६.१७) इति प्रस्तारपातगणना लभ्यते । यथा सर्वत्रैव तावत्प्रथमे गुणने क्रियमाणे उपरिष्टात्फलं भवति । यथा त्र्यक्षरस्य चतुष्कमिति तत्प्रमाणात्प्रस्तारपातगणना वाच्या । यथा त्र्यक्षरस्य स्वेन सह प्रस्तारत्रयमापतति इति । तथा चतुरक्षरस्य चत्वार इति । एवं पञ्चाक्षराणां पश्चप्रभृतयः उदाहार्याः । एतसमुद्रप्रस्तारे प्रकटीकृतं स्वयमेव । पश्चाल्लघुक्रिया लभ्यते एकलवादीनां वृत्तानां निश्चय इत्यर्थः । यथा कियन्ति त्रिलँघुनि वृत्तान्यस्मिन्संभवन्तीति चिन्तायां तस्मात्परिच्छेदः क्रियते यथैव(कं) त्रिलब्धिति । एवं द्वितीयाद् द्विलघुनिश्चयो यथा त्रीणि द्विलघूनीति । तद्वत्तृतीयादेकलघुनिर्णयश्च यथा त्रीण्येवैकलघुनीति । चतुर्थादारभ्य [एव]मेव प्रतिलोम(ग)त्या त्रिगुर्वादीनां कार्यम् । चतुरक्षरादीनां चानयैव दिशा गतिरूह्या । अन्यच्चास्मिन्सूचिप्रस्तारे क्रियमाणे संख्या लभ्यते । सर्वेषामेवैकत्र योजितानां गणनात् । तथा चोक्तमन्यै :- “एष्वेव पिण्डितेषु [च] संख्या प्रस्तारविरचिता भवति" (जयदेव. ८.११) तेन त्र्यक्षरस्याष्टौ प्रभेदाः कथनीयाः चतुरक्षरस्य च षोडश इति । यस्मात् त्र्यक्षरस्य एकक-त्रिक[त्रिक]एककानां एकत्र गणनादष्टा एवोत्पद्यन्ते ॥९॥ क्रमेण प्राप्तं मेरुप्रस्तारमाह-इह को?आणं इति ।
इह को?आण दोण्हं वडूइ हेटुट्ठिअं कमेणेों। पमुंहते एक्केकं तदो अ दो तिण्णि चत्तारि ॥ १० ॥
इह कोष्ठकयोर्द्वयोर्वर्धते अधःस्थितं क्रमेणैव ।
प्रमुखौन्ते एकैकं ततश्च द्वौ त्रयश्चत्वारः ॥१०॥ १ एककद्विकैकं चोपलक्षिता AB. २ तत्सरूपावस्थाया स्थिति: AB. ३ पिंडजह AB. ४ बीओइ AB. ५ Words from लभ्यते to गणना (both inclusive) are dropped in A. ६ समन AB. ७ कियंतत्र लघूनि AB. ८ गुणानां AB. ९ प्रस्तारविचारिता AB. १० एकत्रिगुणानां दष्टा AB. ११ इम AB. १२ हट्टि कमेण भ AB. १३ ददुमुहंते AB. १४ प्रमुखान्तरकैकं A; प्रमुखान्तरेकै R.