SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सटीको वृत्तजातिसमुच्चयः [प्रथमो नियमः प्रयासेनेति । अतएव सत्स्वप्यन्यशास्त्रेषु तेषां वृथाविस्तरत्वादव्याप्तेश्चानेन निबद्धमिदमिति ॥२०-२२॥ : यदुक्तं सामान्येन प्रयोगो यत्र तत्र नरेन्द्रस्य [न] विधानमिति तस्यापवादमाहगाहाखंधअ इति। गाहाखंधअगीईउवगीईगीइआण अ नरिंदो। चउमत्तंसअगणणागओवि विसमे ण ठाणम्मि ॥ २३ ॥ गाथास्कन्धकगीत्युपगीतिकानां नरेन्द्रः। चतुर्मात्रांशकगणनागतोऽपि विषमे न स्थाने ॥ २३ ॥ अयं मध्यगुरुः गाथादीनां चतुर्मात्रगणनामध्यपतितोऽपि सामान्यसंज्ञा(ज्ञ)या विषमे स्थाने न विधेयः । विषमं यस्मादर्थे गीतिकासम्यग्भागो न लभ्यते(?) प्रथमतृतीयपञ्चमादि । पूर्वमेव प्रतिषिद्धस्यास्य वचनं समस्थाना(ने) विध्यर्थम् ॥ २३ ॥ उप(व)गीइ इति । उवगीइ(ई)रहिआण अ छटे ठाणम्मि दिज्जऍ दिओवि। . एआणं चिअ वसुहाहिवस्स दइए अलाहम्मि ॥ २४ ॥ उपगीतिरहितानां षष्ठे स्थाने दीयते द्विजोपि । एतेषामपि वसुधाधिपस्य दयितेऽलाभे ॥ २४ ॥ एतेषां गाथादीनां षष्ठे स्थानेऽवश्यं दीयते उपगीतिवर्जितानाम् । उपगीत्यां ति(हि) षष्ठे लघोविधानात् । तस्मिंश्च तेषां द्विजोऽपि दीयते सर्वलघुरपि दीयते सर्वलघुरपि क्रियते । तेन द्वयोवध(रेव:) विधानाद् द्विप्रभेदं तत्स्थानमिति ॥ २४ ॥ अस्मिन् सर्वलघौ षष्ठे सति विशेषमाह-छट्टिअ इति । छट्टट्रिअविप्पवरे पढमे वण्णम्मि कुणसु निच्चवअं। अह पंचमेवि बीए तो से परिहरसु मुहवन्नं ॥ २५ ॥ षष्ठस्थितविप्रवरे प्रथम वर्णे कुरु नित्यपदम् । अथ पञ्चमेऽपि द्वितीये ततोऽस्य परिहर मुष(ख)वर्णम् ॥ २५ ॥ ... एतेयौ(एतयोः) यदा षष्ठ(ठे) विप्रवरो हयति (भवति) तदास्य प्रथमे वर्णे कुरु नित्यपदं अवश्यतया तत्र पदसमाप्तिर्विधेया । चत्वारो वर्णाः साकल्येन तावत्तस्मिन् संभवन्ति । तत्र प्रथमे विच्छेदो विधेयः। यथा इह 'म्मि कुणसु' इति विप्रे सप्तम्यन्तस्य पदस्य विधानं दर्शितम् । अथवा द्वितीयेऽथ यदि पञ्चमस्थाने स्थितो भवति ततोऽस्य प्रवरवर्णं पूर्वपदेन सह वर्जयेत् । एतदुक्तं भवति । चतुर्थगणस्यान्ते पदसमाप्तिः कार्या द्विजे पञ्चमे सति । अनन्तरं पञ्चमे प्रथमपादे च (?) पदमारब्धव्यम् । इह यथा 'तो से' इति चतुर्थे गणे समाप्ते. 'परिहर' इति पञ्चमे पदस्यारब्धिर्दर्शिता ॥ २५॥ १ निच्चयनिवअं AB. २ गणपदस्यान्तसमाप्तिः AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy