________________
पद्यानि १६ - २२]
सटीको वृत्तजातिसमुच्चयः
प्रिये चतुर्मात्रांशकानां अन्यान्यपि कर्णादीनां संबन्धेऽत्र श्रवणादिरूपादिणि (दनि) यथासंख्यं नामानि जानीहि । तेनैतदुक्तं भवति द्विगुरुः कर्णोऽन्तगुरुः करो मध्यगुरुः पयोधरः आदिगुरुः चरणः सर्वलघुर्विप्र इति ॥ १८-१९ ॥
इदानीं परमतेन संज्ञान्तरमाह गणविशेषस्य – एआणमिति ।
आणं चि मज्झे गुरुमज्झंसस्स जाण अण्णं पि । आअरणिरूविअं सण्णअंगि नामं नरेंदोत्ति ॥ २० ॥ ठाओ सोहइ ठाणअरहिओवि जेण विनडेइ । मज्जाअं पि न लंघइ तेण गुरु (रू) मज्झओ राआ ॥ २१ ॥ सामण्णेहिं पउज्जइ चउमत्तो जत्थ सुअणु नामेहिं । तत्थ नरेंदो न निउज्जइत्ति भणिअं विसहरेहिं ॥ २२ ॥ एतेषामेव मध्ये गुरुमध्योय ( ध्यांश) स्य जानीह्यन्यदपि । आदरनिरूपितं सम्म (न) ताङ्गि नाम नरेन्द्र इति ॥ २० ॥ स्थानस्थितः प्रसाधयति स्थानाद्वहितो [पि] येन विकोट (प) यति । र्यादेव जातीस्तेन गुरुमध्यमो राजा ॥ २१ ॥
सामान्यैः प्रयुज्यते चतुर्मात्रः सुतनु यत्र नामभिः ।
तत्र नरेन्द्रो न नियुज्यते इति भणितं विषधराभ्याम् ॥ २२ ॥
इति इत्थंप्रकारो गाथातृ(त्रि) तयस्यार्थ उक्तो भणितो विषधराभ्यां कम्बलाश्वतराभ्यां हे सुतनु जानीहि । एतेषां नामैव (नैवं ) पूर्वोक्तानां मध्ये यो गुरुमध्यांशो गणस्तस्य नरेन्द्र इति नामान्यदपि निरूपितं आदरेण अतिशयेन विषधराभ्यामेव हे सन्नताङ्गि ललितगात्रलते । कस्मात्ताभ्यामादरेण निरूपितमित्याह — स्थानस्थित इति । यस्मादयं मध्यगुरुः स्थाने गाथादीनां षष्ठाधे प्रदेशे स्थितो निविष्टः संप्रसाधयति तत्सकलमेव वृत्तं भूषयति विशिष्ट रचनात्वाद्येन क (का) रणेन तेन गुरुमध्यमो राजा । येन च कारणेन तस्मादेव विहितात्स्थानाद्रहितो भ्रष्टस्तदेव वृत्तं विकोपयति विनाशयति तथापि गुरुमध्यमो राजा । मर्यादेवेति दृष्टान्तो यथा मया (र्या) [दा] ब्राह्मणादीनां जातीनां यथोचिते स्थाने स्थितास्ता भूषयति तस्माद्युता विकटयति तद्वदयमपि । अतएव राजा । राजा हि स्थाने शास्त्रोचिते स्थितो वर्णं (र्णान् ) भूषयति सम्यक्पालनात् । तस्मादेव च्युतस्तान्वित्रैस्तीकरोति । किंच सामान्यैर्नामभिर्यस्मिन्वृत्तविशेषे चतुर्मात्रः प्रयुज्यते विधीयते तत्र तन्मध्ये नरेन्द्रो [न] विधीयते राजत्वादेव । राजा हि सामान्यमनु॒ष्यमध्ये [न] गण्यते इति । किमृध ( किं मुधा) मतोपन्यसनस्य तस ( तस्य ) फलमित्युच्यते । अनेन दर्शयति न किंचिन्मयेह स्वबुद्धिविरचितं विनद्धं न ( ? ) । किं तर्हि अनेकशास्त्राणामेकदेशत्वाद्यथास्थितवस्तुसंग्रहेणैतच्छास्त्रं मया विरचितम् । सकललक्ष्यव्यापकं(क)संज्ञाः सर्वाश्च संकेतेन क्रियन्ते तावपि पारतन्त्र्यमस्य । अन्यच्च विषधरौ उपहासायोपन्यस्तौ । अंशकविशेषस्य संज्ञामात्रेण प्रयोजनं तच्च गाथापादमात्रेण सिध्यति तत्किमनेन वृथा हंत (हेतु) विशेषणादि१ Com. seems to read मज्जाआ विअ जाईण तेण गुरुमज्झिमो राआ. २ ध्यानाद्रहिताध्यानाद्वहितो AB. ३ स्मां विसंभ्स्वीकरोति AB. ४ मनूद्य AB.