________________
सटीको वृत्तजातिसमुच्चयः
प्रथमो नियमः पश्चमात्रस्याह-पढम इति ।
पढमलहू बीअलहू चउत्थगरुओ अ तइअलहुओ अ। तइअअबीअअगरुआ पमुहगुरू सवलहुओ अ ॥ १६ ॥ प्रथमलघुद्धितीयलघुश्चतुर्थगुरुस्तृतीयलघुः ।
तृतीयकद्वितीयकगुरुः प्रमुखगुरुः सर्वलघुकश्च ॥ १६ ॥ अंशः कथित इत्यनुवर्तते । इत्यत्र सर्वत्र बहुव्रीहिः प्रथम(मः) लघुर्यस्येति कृत्वा । एवंविधेष्वष्टसु प्रभेदेषु अन्यमात्राभ्योऽनुत्पत्तेरने च पञ्चमात्रस्यैव संज्ञासमयेऽनुवादात् पश्चमात्र इत्यत्राल्लभ्यते । तेन एतदुक्तं भवति । छन्दस्कारैः प्रथमलबादिभेदैरष्टविकल्पः पञ्चमोत्रः उक्तः कथित इति । प्रथमगुरुप्रथमलवादीनां अर्थाक्षिप्तं परिशिष्टं लाघवं गौरवं च । अन्यत्स्पष्टम् । एतत् स्पष्टं विस्तारोक्तं इहोक्तं शिष्याणां सुखाय । न ह्याचार्याणां शिष्यहितप्रवृत्तानां तद्विस्पष्टार्थं पुनरुक्तता दोषाय । ते हि परव्युत्पत्तये प्रपन्ना(वृत्ताः) न त्वात्मबोधार्थम् । तस्माद्युक्तमेतत् ॥ (ISI; SIS; IIIS; SSI; IISI; ISII; SIII; IIIII. ) ॥१६॥ इदानीं तेषां संज्ञार्थमाह-गअरह इति ।
गअरहतुरंगपाइक्कजोहनामेहि जाण चउमत्तं । बहुविविहपहरणाणं [च] पंचमत्तं पिहुलसोणि ॥ १७ ॥ गजरथतुरङ्गपदातियोधा(ध)नामभिर्जानीहि चतुर्मात्रम् ।
बहुविविधप्रहरणानां च पञ्चमा पृथुलश्रोणि ॥ १७ ॥ हे विस्तीर्णकटि चतुर्मात्रं गजादीनां यानि मातङ्गवारणादीनि [नामानि ] तैरुपलक्षितं जानीहि पञ्चमात्रोत्रं) गणं बहूनामनेकेषां विविधानां च नानासंज्ञोपलक्षितानां प्रहरणानां नामभिरुपलक्षितम् । चतुर्मात्रं पञ्चमात्रं चेत्येकवचनेन जातिमात्रं [ लक्ष्यते]। प्रयाणा(प्रयोगे?) लक्ष्ये च तथा दृष्टेरग्रे च विशेषसंज्ञाभिधानात् यथासंख्ये मतिर्न विधेया ॥ १७॥ विशेषसंज्ञार्थमाह-कण्ण(न)कर इति ।
कन्नकरपओहरचलणविप्पसन्नाई जाणसु इमाई। अन्नाई वि चउमत्तंसआण दइए जहासंखं ॥ १८ ॥ गुरुजुव कण्णं गुरुअंत करअलं पउहरं च गुरुममं । आइगुरुणा अ चलणं विप्पं सव्वत्त लहुएहि ॥ १९ ॥* कर्णकरपयोधरचरणविप्रनामानि जानीहि इमानि । अन्यान्यपि चतुर्मात्रांशकानां दयिते यथासंख्यात्(ख्यम्) ॥१८॥ [गुरुयुगं कणं गुर्वन्तं करतलं पयोधरं च गुरुमध्यम् ।
आदिगुरुणा च चरणं विप्रं सर्वत्र लघुकैः ॥ १९॥] १ संपत्तेलघुश्च AB. २ पंचम: AB. ३ पुनरुक्तस्थाया AB. ४ A drops उपलक्षितं to नानासंशो (in next line). * Com. drops Sanskrit rendering of this stanza. The translation given here is by the editor.