SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पद्यानि १३-१५] सटीको वृत्तजातिसमुच्चयः (दि)कारस्य ल्हशब्दपूर्वस्य । तथा न्तिशब्दादिकारस्य द्रपूर्वस्येति । तस्मादतिव्याप्तिरिति । अन्यं(न्यच्च कैश्चिदरस्क(नच्क)हत्पूर्वस्य मातृकस्य गौरवमुक्तं पृथक् पृथगित्यादौ थकारस्य । एतच्चेह नास्तीत्यव्याप्तिः । अत्रोच्यते । यदुक्तं तीव्रप्रयत्नपूर्वस्य गौरवमिति तदभिमतमेव आचार्यस्य । येन रड्डालक्षणे प्रोक्तं च :-'एअहु मत्तहु अंतिमउ जन्विहि दुवहउ भ्रोद्रि । तो तहु णामें रडु फुडु छंदइ कइअणु भ्रोदि॥' (४.३१) इति । इह च अनेना[भिप्रायेण नोक्तम् । तत्कदाचिदस्य लक्षणस्य सामान्यात् संस्कृते भ्रान्तिर्भविष्यति जनानाम् । तस्मान्नातिव्याप्तिः । यच्चोक्तमनच्कहत्पूर्वस्य गौरवं नोक्तं तदप्यसाधु । अनकहल्पूर्व[स्य] पादमध्ये तावेदसंभवः । यस्मात्तत्रावश्यतया संहिता भवति झगिति वगित्यादिवत् । तस्मान्मध्येऽनच्को न भवति । अन्ते च सत्यपि तस्मिन् [न] प्रयोजनं गौरवातिदेशस्य पादान्तिमकत्वेनैव गतत्वात् । यद्यपि हलोन्तस्थिति चस्तथाप्यचः प्राधान्यं, यस्माद्रौरवं लाघवं वाचि स्थितं न तु हलि। उक्तं च तैः ‘अन्यो वर्णो हलु सं निवे'ति (?)॥१३॥ एवं गुरुलघुस्वरूपमुक्तम् । इदानी प्रस्तारे यादृगनयोः स्वरूपं तथा दर्शयति-कुणसु इति। कुणसु कुडिलोज्जुअग्गं गरुअं अंगुट्ठपवपरिमाणं । लहुअं च उज्जुअं तित्तिएण दइए पमाणेण ॥ १४ ॥ . कुरु कुटिलर्ध्वग्रं गुरुमगुष्ठपर्वपरिमाणम् । लघु चर्जुकं तावतैव दयिते प्रमाणेन ॥ १४ ॥ ऋजु स्पष्टं अयं प्रान्तं यस्य तदृज्वग्रम् । कुटिलं वक्रम् । कुटिलं च तदृज्वग्रं कुटिलर्ध्वग्रम् । उदाहरणम् ॥ 5 ॥ लघु स्पष्टमेव । प्रमाणसंख्यापूर्वत्वमात्रमुभयोरपि स्थितम् । एतदध्वयोग उपयुज्यते लाघवेन । इदानीं अशेषलक्ष्यव्याप्त्यर्थं चतुर्मात्रांशविभागेन विविधसंज्ञाभिश्चेदं प्रकरणमारभ्यते॥१४॥ - तत्र प्रथमं तावदंशविभागमाह-सव्वंत इति । सव्वंतमज्झगरुओ पमुहे गरुओ अ सव्वलहुओ अ । चउमत्तंसो भणिओ पंचविहो छंदआरेहिं ॥ १५॥ सर्वान्तमध्यगुरवः प्रमुखे गुरुस्तथा सर्वलघुश्च । चतुर्मात्रांशो भणितः पञ्चविधश्छन्दस्कारैः ॥ १५॥ लघुकला मात्रा । चतस्रो मात्रा यस्यादौ(सौ) चतुर्मात्रः । अंशो गण इति पर्यायः । छन्दस्कारैः पिङ्गलादिभिः पञ्चविधः पञ्चप्रकारो भणितः उक्तः । कथमित्याह । सर्वश्चान्तश्च मध्यश्च सर्वान्तमध्याः। सर्वान्तमध्याः गुरवो येषां ते तथा । अन्यच्च । प्रमुख आदौ गुरुर्यस्यासौ प्रमुखगुरुः तथा सर्वलघुश्च । तेन प्रथमः सर्वलघु(गुरु)द्यक्षरोन्त्यश्चतुरक्षरः शेषास्त्र्यक्षरा इति । अकारअत्यन्ते (?) । तेषां चाद्यन्तयोर्मध्ये च गुरोरवस्थानात् । शेषं लघुद्वयं स्थितमेव । उदाहरणम् SS; IIS; ISI; SII; IIII. ॥१५॥ १ अहमनुग्रहं अंतिमतं जम्वद्रवहओ भ्रोदि । तोत्तहं णामउरत्वात्तच्छंद कइट्ठा प्रोदि । AB. २ अयं संभव: AB. ३ चार्जवं तावतावएव AB.
SR No.023458
Book TitleVruttajatisamucchaya
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy