________________
१५२ द्वितीयाविभक्तिविचारः ।। यथा गौर्दयते दुग्धा वा गौणकर्माविवक्षणे तु प्रधान नकर्माप्यभिधीयते यथा पयांसि दुद्यन्ते दुग्धानि वा न्यादिभ्यः पञ्चभ्यः कर्मप्रत्ययेन गुणकर्मणो विवक्षणे वा प्रधानकर्मवाभिधीयते यथा अजा ग्रामं नीयते अविवक्षणे तु यथा अजा नौयते एवं राजा कनकं या च्यते याचितो वा अत एव राजा सुतं याचित इति यथा वा कनक याच्यते याचितं वा एवं व्रजो गामवरूयते अवरुदो वा यथा वा गौरवरुध्यते अवरुद्धा वाएवं जानपदः पन्थानं व्यते पृष्टो वा प्रच्छिपर्यायवृदिवोध्य: अत एवाहमपीदमचोद्यं चोदो इति । एवं तमः पुष्पमवचीयते अवचितो वा यथा वा पुष्यमवचीयते अवचितं वा अत एव अवचितकुसुमा विहाय वल्लोरिति एवं शिष्यो धर्ममुच्यते उक्तो वा एवं शिष्यो धर्ममनुशास्यते अनुशासितो वा यथा वा धर्मो नुशास्यते अनुशासितो वा एवमाक्षिक: शतं जीयते जितो वा यथा वा शतं जीयते जितं वा अत एव कृतप्रणामस्य महौं महोभुजे जितां सपत्नेन निवेदयिष्यत इति एवं गर्गः शतं दण्ड्यते दण्डितं वा एवं क्षौरनिधिः कौस्तुभं मथ्यते मथितो वा अत एव देवासुरैरमृतमम्बुनिधि ममन्थे इति यथा वा कौस्तुतो मथ्यते मथितो वा एवं तण्डुल श्रोदनं पच्यते पक्को वा यथा वा भोदनः पच्यति पक्को वा एवं वणिग्घिरण्यं सुष्यते मुषितो वा अत एव रत्नानि मुषितो वणिगिति यथा वा कनक मुष्यते मुषितं वा एवं मारो ग्राममुच्यते जढो वा एवं परधनं स्वगृहं वियते हृतं वा यथा वा परधनं हियते
Aho! Shrutgyanam