Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 484
________________ ४६६ सप्तमीविभक्तिविचारः। गडीवित्वस्य तादृशधर्मसामानाधिकरण्याप्रसिद्याऽपि नान्वयानुपपत्तिः न चैवं क्षत्रियाणां धनञ्जयो गाण्डौवीत्यादिप्रयोगः स्यादिति वाच्यम् इष्टत्वात् यदि च द्रव्याणां क्षत्रियः शर इत्यादिक: प्रयोगो नेष्यते तदा निर्धायंताऽवच्छेदके निर्धारण विभक्तिप्रकृत्यर्थतावच्छेदकस्य साक्षाद्याप्यत्वं तत्र तन्त्रमिति मन्तव्यं न हि क्षत्रियत्वादिकं द्रव्यत्वसाक्षाद्याप्यं द्रव्यत्वव्याप्यपृथिवौत्वादिव्याप्यत्वात् भवति च नरत्वसाक्षाद्याप्यमिति दर्शितप्रयोग इष्यते न च नरत्वव्याप्यत्वात् क्षत्रियत्वस्य न नरत्वसाक्षाद्याप्यत्वमिति कथं दर्शितप्रयोग इति वाच्यं क्षत्रियत्वस्य हिजातित्वाव्याप्यत्वात् संस्कारविशेषरूपस्य हिजातित्वस्याकृतसंस्कारक मृतक्षत्रिये विरहात् न च विजातीनां क्षत्रियः शूर इत्यादिकः प्रयोगो न स्यादिति वाच्यम् । इष्टत्वात् अत एव क्षत्रियादिपदसमभिव्याहार विजातीनामिति निर्धारण विभक्तिन किन्तु नराणामित्येव यदि च हिजातित्वव्याप्यत्वेऽपि नरत्वव्याप्य जात्यव्याप्यत्वात् जातिघटितं नरत्वसाक्षायाप्यत्वं क्षत्रियत्वे नानुपपन्नमिति नराणामित्यादिदर्शितप्रयोगी नानुपपन्नस्तदा द्विजातीनामित्यादिदर्शितनयोगोऽपोष्ट एवात्र व्याप्यता न तन्त्रमिति वक्ष्यते । ननु पाथःएथिव्योः पृथिवी गन्धवतीत्यादावन्वयानुपपत्तिः पृथिवीकृत्तिभेद प्रतियोगित्वस्य पृथिवीत्वसमनियतधर्मावच्छिन्नस्य पृथिव्यामसत्त्वात् जलनिष्ठभेदप्रतियोगित्वस्य तादृशस्य पृथिव्यां सत्त्वेऽपि तादृश प्रतियोगित्वे जलत्व सामानाधिकरण्यविरहात् यद्धर्मावच्छिन्ननिष्ठभेदप्रति Aho! Shrutgyanam.

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498