Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
सप्तमीविभक्तिविचारः। तस्वामित्ववान् राम इत्यन्वयबोधः । अधिरामे भूरित्यादावधिशब्दद्योत्यं सप्तम्याः स्वत्वमर्थस्तव निरूपकत या प्रकृत्यर्थ स्यान्वयस्तथा च रामनिरूपितस्वत्ववती भूरित्यन्वयबोधः । अधिब्रह्मदत्ते पञ्चाला: अधिपञ्चालेषु ब्रह्मदत्त इत्यादी काशिकोदाहरणेऽप्यनया रोत्याऽन्वयो बोध्यः । ब्रह्मदत्तः पञ्चालराजः । "विभाषा कृषि" इति सूत्वम् अधिः करोती कर्मप्रवच- . नीयसंतो वा स्यादित्यर्थकम् । अत्र प्रवराद्योतकस्यधियोगे सप्तमौ न भवति यथा यदव मामधिकरिष्यती. त्यादौ अव धातोकिनियोगोऽर्थः सप्तम्या आदेशवल: कर्मघटितसंबन्धावच्छिन्नमाधेयत्वमर्थः इदंपदार्थः कमविशेषस्तथा चेदंकर्मविशेषत्तिमत्कर्मकयदभिन्नभाविनियोगकर्ट त्वं वाक्यार्थ: करोतियोगधेः कर्मप्रवनीयसंज्ञा विधानं दर्शित करोतिप्रयोगे गतिसंज्ञाप्रयुक्तस्य "तिङि चोदात्तवती"तिसूत्रेण प्रसक्तस्य निघातस्य निषेधार्थमिति । कर्मप्रवचनीययोगे द्वितीयापञ्चमीसप्तमीविधानं शेषषष्ठीबाधकं सर्वा द्य पपदविभक्तयः शेषषष्ठापवादिका इत्युक्तरिति शाब्दिकाः । तच्चिन्त्यम् अपवादे प्रमाणाभावात्सूबभाष्यवार्तिककृतिग्रन्थादावपवादकत्वस्यानभिधानात् मम प्रतिभातीत्यादौ शेषे षष्ठमा दर्शनाच्च कर्मप्रवचनीयस्थ स्वरूपसतो वा प्रतेोगे हितीयाविधानाद् अत एव बुभुक्षितं न प्रतिभाति किञ्चिदित्यादौ द्वितीयोपपद्यते । एवं च तस्य ते परिपन्थिन इत्यादावपि शेषे षष्ठा पपद्यते अन्यथा परिपन्थि घटकपरिशब्दयोगेऽपि कर्मप्रवचनौययोगे द्वितीयादर्शनात्"परिपन्थं च तिष्ठती"तिनिर्देशादुपपदविभक्तः शेषषष्ठाप
पं.श्री चंद्रसागरजी गणिवर।
sites - Ahal Shr

Page Navigation
1 ... 494 495 496 497 498