Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 482
________________ ४६४ सप्तमीविभक्तिविचारः द्रव्यस्य तथाभूततादृशोभयत्ववत्त्वेऽपि नराणां द्रव्य शौयवदित्याहिकप्रयोगः प्रतियोगितावच्छेदकत्वं प्रतियोगितावच्छेदकधर्मसमनियतत्वं बोध्यम् अत: पार्थिचपात्राणां कम्बुगौवादिमज्जलाहरणमित्यादिप्रयोगस्य : नानुपपत्तिः कम्बगोवादिमत्त्वादेरवयितावच्छेदकस्य प्रतियोगितावच्छेदकत्वविरहेऽपि प्रतियोगितावच्छेदकोभूतघटत्वादिसमनियतत्वात् तथा चान्वयितावच्छेदकसमनियतो धर्म एव भेदप्रतियोगितावच्छेदकत्वेन प्रकृते भासत इति व्य त्पत्तिरेतदर्थमेव भेद प्रतियोगित्वमपहाय भेदप्रतियोगितावच्छेदको निर्धारणेऽनुप्रवेशितः यदि च प्रतियोगित्वमतिरिक्तपदार्थस्तवापि विशेषप्रतियोगितातोऽतिरिक्तं सामान्य धर्मावच्छिन्नप्रतियोगिस्वमिति मन्यते तदापि अन्वयितावच्छेदकसमनियतधर्मावच्छिन्नप्रतियोगित्वलाभार्थं प्रतियोगितावच्छेदकस्यानुप्रवेशस्तथा च भेदप्रतियोगित्वमेव निर्धारणवि- । भक्तरर्थः भेदप्रतियोगितात्वेनान्वयितावच्छेदकसमनियतधर्मावच्छिन्ना प्रतियोगिताब्यक्तिरेव भासत इति व्य - त्पत्तिः भेदप्रतियोगित्वे तदवच्छेदके वा प्रक त्यर्थतावच्छेदकसामानाधिकरण्यस्यान्वयोपगमात् ब्राह्मणानां क्षत्रियः शूर इत्यादिको न प्रयोगः ब्राह्मणत्वसमानाधिकरणस्य ब्राह्मणत्तिभेदप्रतियोगित्वस्य क्षत्रिय विरहात् । न च दर्शितप्रयोगवारणार्थ निर्धारणविभक्तोस्तादात्म्यमर्थोऽस्तु तादाम्यस्य क्षत्रियादावन्वय इति न काऽप्यनुपपत्तिरिति वाच्यम् । तथासति नराभेदविशिष्ट क्षत्रिये शू रस्य तादात्म्येन विधेयत्वोपगमेन Aho! Shrutgyanam.

Loading...

Page Navigation
1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498