Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office
View full book text
________________
विभक्त्यर्थनिर्णये। चानारे" इति सूत्रम् । अनादरे अधिक भावलक्षकभाववत: षष्ठी भवति चकारात्मप्तमी भवतीत्यर्थकम् । रुदतो रुदति वा प्रावाजी दिल्यादौ षष्ठीसप्तम्योः पूर्वोक्त कालत्तित्वमनादरोऽधिकश्वार्थ: सोऽपि समानकालिकतया क्रियान्तरेवेति अनादरोऽवहेला सा च समोहिनासिद्धि स्वरूपा रुदत: समीहितं तत्पुरुषम्य गार्हस्थ्यं प्रव्रज्याविरहो वा तदसिद्धिः प्रव्रजने सति भवत्येव तथा च रुदत्काल त्तिरुदत्समौहितस्य गार्हस्थ्यादेशप्तिद्धिकालिको याऽतीतकालयत्तिप्रव्रज्या तत्कट त्वं वाक्यार्थः । अनादरस्य नोत्तरकालिकतयाऽन्वयः समौहितस्य प्रवज्याविरहस्याभावः प्रव्रज्या तत्स्वरूपं क्रियाऽन्तरं न तदु तरकालिकं भवतीत्यनुपपत्तिप्रसङ्गात् । यत्त क्रोशन्तमनादृत्य प्रावाजौदिति काशिकावृत्तावुक्तं तत्त मुखं व्यादाय स्वपितौयादाविव ल्यपः समान कालिक- । कत्वार्थकत्वाभिप्रायेण । एवं पश्यतो वा सुवर्ण हरतीत्यादौ हरणाभाव एव द्रष्टुः समोहितः । एवं यतमानानां यतमानेषु वा जयद्रथमवधीत्फाल्गुन इत्यादौ यतमानानां जयद्रथस्य रक्षगां वधाभावो वा समाहितः । यदहे ग्यकेच्छाप्रयोज्या क्रिया क्रियान्तरं लक्षयति तस्वेच्छोद्देश्यस्यासिद्धिः समोहितासिद्धिोध्या तेन सुचानम्य भुचाने वा स्वणं हरतीति न प्रयोगः यतः स्वगहरणाभावोद्देश्य के छाप्रयोज्या न भोजन क्रियेति तथाभूतेच्छाप्रयोज्या दर्शनक्रियेति पश्यति पश्यतो वा हरतीति प्रयोगे रोदनादिक्रियायाः करुणोत्पादनहारा प्रव्रज्याविरहानुगुणत्वावगमात् प्रव्रज्यादिविरहोहे
Aho ! Shrutgyanam

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498