Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 468
________________ ૪૬૦ सप्तमीविभक्तिविचारः त्वादिजातेरवयवावयविवृत्तित्वादवयवस्यापि हौपित्वं "क्रियार्थोपपदस्येति सूत्रेण प्रसक्तायाः चतुर्ष्याः हन्तिकर्मोपष्टदेवाधिका सप्तमी न तु सर्वत्र तथासति "क्रियार्थोपपदस्ये" ति सूत्रवैयर्थ्यापत्तेः । दार्शनिकास्तु कर्म क्रिया तस्या योगे संबन्धे निमित्त वाचकात्सप्तमौ भवतौति वार्तिकार्थः निमित्तं तु यत्प्राप्तीच्छा प्रयोज्या यत्प्रयोजिका क्रिया तदुभयं तत्राद्ये चर्मणि होपिनमित्यादौ सप्तमी अन्तेऽविद्यारजनोचये यदुदेतो त्या दो सप्तमौ तथा च चर्मणोत्यत्र सप्तम्याः प्राप्तीच्चैवार्थः अविद्यारजनौ च्छाये इत्यादौ तादर्थ्यमनुकूलत्वं सप्तम्या अर्थ: अनुकूलत्वे चतुर्थी तृतीया सप्तमी भवतीति न परस्परं तासां बाध्यबाधकभाव इति एवं सहकारित्वं जनकत्वं च निमित्तत्वं तत्रादद्यं यथा उपरागे स्नानं विवाहे श्राद्धमित्यादौ अत्र सप्तम्याः स्वजन्येष्टविशेष जनकत्वमर्थः स्नानादावन्वेति । एवं गृहस्थादावारे भग्ने इन्द्रबाहुर्बद्धव्यः पायसं ब्राह्मणो भोजयितव्य इत्यादावपि स्वजन्येष्टजनकत्वं सप्तम्यर्थ इन्द्रबाहु - न्धनादावन्वेति । द्वितीयं यथा गोवधे प्रायश्चित्तमित्यादी व हरितनाशकत्वं प्रायश्चित्तशब्दार्थः सप्तम्या नन्यत्वमर्थः प्रायश्चित्तैकदेशे दुरितेऽन्येति । एवमन्यवापि निमित्तत्वं बोध्यमित्याहुः । क्रियान्तर समभिव्याहारे सति कालार्थककदन्तात्सप्तमीं ज्ञापयति । " यस्य च भावन भावलक्षणमिति सूत्रम् । भावः क्रिया यस्य च भावेन क्रियाऽन्तरं लक्ष्यते ततो भाववतः सप्तमी भवतीत्यर्थकम् । अव भाववान् कालार्थक कदन्तार्थो Media Atro Shrugyanam

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498