________________
૪૬૦
सप्तमीविभक्तिविचारः
त्वादिजातेरवयवावयविवृत्तित्वादवयवस्यापि हौपित्वं "क्रियार्थोपपदस्येति सूत्रेण प्रसक्तायाः चतुर्ष्याः हन्तिकर्मोपष्टदेवाधिका सप्तमी न तु सर्वत्र तथासति "क्रियार्थोपपदस्ये" ति सूत्रवैयर्थ्यापत्तेः । दार्शनिकास्तु कर्म क्रिया तस्या योगे संबन्धे निमित्त वाचकात्सप्तमौ भवतौति वार्तिकार्थः निमित्तं तु यत्प्राप्तीच्छा प्रयोज्या यत्प्रयोजिका क्रिया तदुभयं तत्राद्ये चर्मणि होपिनमित्यादौ सप्तमी अन्तेऽविद्यारजनोचये यदुदेतो त्या दो सप्तमौ तथा च चर्मणोत्यत्र सप्तम्याः प्राप्तीच्चैवार्थः अविद्यारजनौ च्छाये इत्यादौ तादर्थ्यमनुकूलत्वं सप्तम्या अर्थ: अनुकूलत्वे चतुर्थी तृतीया सप्तमी भवतीति न परस्परं तासां बाध्यबाधकभाव इति एवं सहकारित्वं जनकत्वं च निमित्तत्वं तत्रादद्यं यथा उपरागे स्नानं विवाहे श्राद्धमित्यादौ अत्र सप्तम्याः स्वजन्येष्टविशेष जनकत्वमर्थः स्नानादावन्वेति । एवं गृहस्थादावारे भग्ने इन्द्रबाहुर्बद्धव्यः पायसं ब्राह्मणो भोजयितव्य इत्यादावपि स्वजन्येष्टजनकत्वं सप्तम्यर्थ इन्द्रबाहु - न्धनादावन्वेति । द्वितीयं यथा गोवधे प्रायश्चित्तमित्यादी व हरितनाशकत्वं प्रायश्चित्तशब्दार्थः सप्तम्या नन्यत्वमर्थः प्रायश्चित्तैकदेशे दुरितेऽन्येति । एवमन्यवापि निमित्तत्वं बोध्यमित्याहुः । क्रियान्तर समभिव्याहारे सति कालार्थककदन्तात्सप्तमीं ज्ञापयति । " यस्य च भावन भावलक्षणमिति सूत्रम् । भावः क्रिया यस्य च भावेन क्रियाऽन्तरं लक्ष्यते ततो भाववतः सप्तमी भवतीत्यर्थकम् । अव भाववान् कालार्थक कदन्तार्थो
Media Atro Shrugyanam