Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 428
________________ ४०४ पञ्चमीविभक्तिविचारः । ति संख्याया आधिक्यं खान्यसंख्या व्याप्यत्वं न्यूनत्वं तु स्वान्यसंख्या व्यापकत्वं दशत्वव्याप्यं शतत्वं न तु द्वशत्वं तद्याप्यं दशमाचे व्यभिचारादिति शतत्वमधिकं शतत्वव्यापकं दशत्वमिति तन्न्यूनमिति अधिकसंख्या क चिदवयवगता यथा गुञ्जाया अधिको यवः क्व चिन्मूल्यगता यथा रजतादधिकं हिरण्यं क्व चित्पुण्यगता यथा पितुरधिको युधिष्ठिरः कचिद्दिद्यागता यथा वैशम्पायनादधिको व्यासः क चिह्नणगता यथा तेनसोऽधिके चितिपाथसौ एवमन्यत्राप्यूहनीयम् । तस्मात्स्थूलः art area दीर्घत्ववत्त्ववदन्वयो बोध्यः एवमन्यत्रापि विभक्तपञ्चम्यर्थान्वयो बोध्यः । केचित्तु तस्मादयं दीर्घ इत्यादौ पञ्चम्यर्थस्यावधिमत्त्वस्यापादानरूपस्य दीर्घादिनामार्थेऽन्वयाव्युत्पत्तेः भवतीतिक्रियाध्याहार इति वदमि । तदसत् कारकेऽपादानत्वस्वरूपस्य दर्शितत्वात् विभक्तपञ्चम्याः तदर्थकत्वविरहात् भवतोत्यध्याहारेऽपि भवत्यर्थयोरुत्पत्तिमत्तयोर्निरवधित्वेनानन्वयापतेश्च । किं दावधित्वमपि नैकं यतः विभागनिरूपोऽवधिनं परत्वष्टथक्वा दिनिरूपक इत्यास्तां विस्तरः । काशिकावृत्तौ निर्धारणाश्रये यस्मिन् विभक्तमस्ति ततः पञ्चमो भवतौति व्याख्यातं तदनुरोधेन प्रकृतेऽपि तथा व्याख्यातं निर्धारणं तु विशेषेण वक्ष्यते । यदि च नागरिकेषु पा'टलिपुत्रेभ्य श्राव्यतरा माथुरा इति नरेषु चत्रिया वैश्येयः शूरा इति च प्रयोगस्तदा वृत्तौ निर्धारणाश्रय इत्युपादानं युक्तमेवेति । • इत्यकारक पञ्चग्यर्थनिर्णयः । इति विभक्त्यर्थनिर्णये पञ्चमौविवरणं समाप्तम् । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498