Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 461
________________ - बिभक्त्यर्थनिर्णये । धनं दुरधिकारिणि इत्यादी स्वामित्वावच्छिन्द्राधेयत्वं सप्तम्यर्थः । गोषु प्रभुः मगधेषु राजत्यादौ स्वत्वसंबन्धावच्छिन्नाधेयत्वं सप्तम्यर्थः । स्फटिके लौहित्ये जपाकुसुममुपाधिरित्यादौ स्वेतरविशेष्यता कस्वधर्मप्रकारताकज्ञानजनक उपाधिशब्दार्थस्तव लौहित्याधेयत्वं प्रकारतायां स्फटिकाधेयत्वं विशेष्यतायामन्वेति स्फटिकलौहित्येयमुपाधिरित्यत्र स्वप्रकारताकत्तानविशेष्यतासंबन्धावच्छिन्नाधेयत्वात्मकस्फटिकपदलक्ष्यस्तादात्म्येन लौहित्येऽन्वेति तादृशलौहित्याधेयत्वस्योपाधिशब्दाथै कदेशे प्रकारत्वे पूर्वबदन्वयो व्युत्पत्तिवैचिल्यादिति । धूमे साध्ये वन्ही हेतावादॆन्धनसुपाधिरित्यत्र साध्यव्यापक उपाधिशब्दार्थस्तादात्म्य नाट्रेन्धनान्वेति तादृशार्दैन्धने व्याप्यत्वसंबन्धावच्छिन्नं धूमाधयत्वमन्वेति । अत एव व्याप्यत्वव्यभिचारित्वसंबन्धौ वृत्त्यनियामकाविति तान्त्रिकाः । साध्यशब्दार्थस्तु सिसाधयिषोद्देश्यसि विविधयताऽ वच्छेदकधर्मवान्बोध्य इति । प्रभाते गोष्ठे मध्यान्हे कच्छे गौरित्यादौ कालिकसंबन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थः । यदि च कालिकाधे यत्वं गोष्ठादिदेशाविशेषणतया भासते तदाऽवच्छेदकतात्वेन व्यपदिश्यते अत एवापच्छेदकत्वार्थिका सप्तमीति मन्यन्ते तान्त्रिकाः । न हि स्वरूपसंबन्धविशेषोऽतिरिक्तं वाऽवच्छेदकत्वं सप्तम्यर्थः सम्भवति अनुशासनविरहात् । एवं गोष्ठादिदेशाधेयत्वं यदि प्रभातादिकाल विशेषणतया प्रतीयते तदा तदपि दैशिकावच्छेदकतात्वेन व्य पदिश्यते । न च देशाधेयत्वेन प्रभातादिकालविशेषणं सम्भवति अव्यावर्तकत्वादिति समि Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498