Book Title: Vibhakatartha Nirnay
Author(s): Girdhar Jha, Jivnath Mishra
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 462
________________ ર सप्तमीविभक्तिविचारः । वाच्यम् । होपान्तरप्रभातव्यावर्तकै तही पटत्तित्वस्येव गोडादिवृत्तित्वस्यापि व्यावर्तकत्वसम्भवात् यत्र तु देशककालिकाधेयत्वयोः कालदेशयोर्न विशेषणत्वमव्यावर्तकत्वात् तत्र नावच्छेद्यावच्छेदकभाव उपेयते यथा . इदानीं गुणे सत्तेत्यादौ चत्र गुणाधेयत्वं न प्रत्यक्षकाले प्रत्यक्ष कालप्तित्वं वा गुणे विशेषणमव्यावर्त्तकत्वात् किं तु प्रत्यक्षकालाधेयत्वं गुणाधेयत्वं च खातन्त्र्येण सत्तायामेव प्रतीयतेऽन्यथानुपपत्तेरिति । एवं वृक्षे शाखायां कपिसंयोग इत्यादौ शाखाधेयत्वं वृक्षविशेषग्रामिति शाखाऽवच्छेदकत्वेन व्यपदिश्यत इति । " यमिनग्नौ पचेदन्नं तत्र होमो विधीयते" इत्यादौ प्रयोजनकव्यापारस्वरूपः संबन्धो वृत्तिनियामकस्तत्संबन्धावच्छि नामाधेयत्वं सप्तव्यर्थो वन्हिविशेषितः पाकेऽन्वेति पत एव व्यापारस्तत्प्रयोज्यत्वं वा सप्तम्यर्थ इति तान्त्रिकवाको दर्शिताधेयत्वमेव व्यापारादिशब्देन व्यपदिश्यत इति । क्व चिद्यापकता संबन्धोऽपि वृत्तिनियामकः यथा कारणतायामनन्यथोसिडिर्नियतपूर्ववर्तित्वं वेत्यादौ अत्र व्यापकतासंबन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थो अन्यथासिद्दिविरहे नियतपूर्ववर्तित्वे चान्येति व्यापकवार्थिका सप्तमीति तान्त्रिकवाक्ये व्यापकत्वशब्देन व्यापकत्व संबन्धावच्छिन्नमाधेयत्वं प्रत्याय्यते अतो व्यापकवस्य न सप्तम्यर्थत्वमनुशासनविरहादिति प्रत्युक्तम् । साधुशब्दस्य सङ्केत संबन्धोऽपि वृत्तिनियामकः यथा कर्तरि कृत् भू सत्तायामित्यादावनुशासने "विनायके विधुराजद्वैमातुरगाधिपा" इत्यादी कोशे अत्र सङ्केतसंबन्धा Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498