________________
ર
सप्तमीविभक्तिविचारः ।
वाच्यम् । होपान्तरप्रभातव्यावर्तकै तही पटत्तित्वस्येव गोडादिवृत्तित्वस्यापि व्यावर्तकत्वसम्भवात् यत्र तु देशककालिकाधेयत्वयोः कालदेशयोर्न विशेषणत्वमव्यावर्तकत्वात् तत्र नावच्छेद्यावच्छेदकभाव उपेयते यथा . इदानीं गुणे सत्तेत्यादौ चत्र गुणाधेयत्वं न प्रत्यक्षकाले प्रत्यक्ष कालप्तित्वं वा गुणे विशेषणमव्यावर्त्तकत्वात् किं तु प्रत्यक्षकालाधेयत्वं गुणाधेयत्वं च खातन्त्र्येण सत्तायामेव प्रतीयतेऽन्यथानुपपत्तेरिति । एवं वृक्षे शाखायां कपिसंयोग इत्यादौ शाखाधेयत्वं वृक्षविशेषग्रामिति शाखाऽवच्छेदकत्वेन व्यपदिश्यत इति । " यमिनग्नौ पचेदन्नं तत्र होमो विधीयते" इत्यादौ प्रयोजनकव्यापारस्वरूपः संबन्धो वृत्तिनियामकस्तत्संबन्धावच्छि नामाधेयत्वं सप्तव्यर्थो वन्हिविशेषितः पाकेऽन्वेति पत एव व्यापारस्तत्प्रयोज्यत्वं वा सप्तम्यर्थ इति तान्त्रिकवाको दर्शिताधेयत्वमेव व्यापारादिशब्देन व्यपदिश्यत इति । क्व चिद्यापकता संबन्धोऽपि वृत्तिनियामकः यथा कारणतायामनन्यथोसिडिर्नियतपूर्ववर्तित्वं वेत्यादौ अत्र व्यापकतासंबन्धावच्छिन्नमाधेयत्वं सप्तम्यर्थो अन्यथासिद्दिविरहे नियतपूर्ववर्तित्वे चान्येति व्यापकवार्थिका सप्तमीति तान्त्रिकवाक्ये व्यापकत्वशब्देन व्यापकत्व संबन्धावच्छिन्नमाधेयत्वं प्रत्याय्यते अतो व्यापकवस्य न सप्तम्यर्थत्वमनुशासनविरहादिति प्रत्युक्तम् । साधुशब्दस्य सङ्केत संबन्धोऽपि वृत्तिनियामकः यथा कर्तरि कृत् भू सत्तायामित्यादावनुशासने "विनायके विधुराजद्वैमातुरगाधिपा" इत्यादी कोशे अत्र सङ्केतसंबन्धा
Aho! Shrutgyanam