________________
विभक्त्यर्थनिर्णये।
४४३ वच्छिन्नाधेयत्वं सप्तम्यर्थः कृच्छब्दार्थे तिङन्यप्रत्यये भूधातौ विघुराजादिशब्दे चान्वेति । ननु भूसत्तायामित्यन भूशन्दे कथं सप्तम्यर्थस्यान्वयबोधः स्वरुपपरशब्दस्य सुप्र. कृतेरेव साधुत्वात् न च स्वरूपपरस्यापि धातुशब्दस्याधातुरितिपर्यदासात्प्रातिपदिकसंज्ञाविरहात्सप्रकृतित्वविरहेऽपि साधुत्वान्नानुपपत्तिरिति शाब्दिकमतं युक्तमिति वाच्यं तथा सति भुवो वुगि"त्यत्र "भाषायां सदवसश्रुव" इत्यत्र च निर्देशे धातुशब्दस्य सुपप्रकृतित्वविरहप्रसङ्गात् । न च श्रीनोपस्थिते भूशब्दे सप्तम्यर्थस्यान्वयबोध इति वाच्यम् । वृत्त्या शन्देनोपस्थापित एवार्थे तथाभूतस्यार्थस्यान्वयबुद्धेव्युत्पत्तिसिद्धत्वाद् वृत्त्यनुपस्थापितेऽर्थेऽन्वयबोधस्थाप्रामाणिकत्वाद् अन्यथा श्रोत्रीपस्थिते मृदङ्गशन्दे गुणपदोपस्थापितगुणस्थ तादात्म्येनान्वयबोधसामग्री सत्त्वात् मृदङ्गशब्दो गुण इत्यन्वयबोधप्रसङ्गादिति चेत् । अत्र गुण चरणाः । यदर्थशयाँ धातुत्वं निपातत्वं वा शब्दानां तदर्थ संबन्धस्वरूपलक्षणायामपि तेषां शब्दानां धातुत्वं निपातत्वं वाऽक्षतमेवेति यथा वाशब्दस्य गत्यात्यर्थकत्वे धातुत्वं विकल्याद्यर्थकत्वे निपातत्वं तत्तदर्थसंवन्धस्वरूपलक्षणायां धातुत्वं निपातत्वं चेति भूशब्दस्य स्ववाच्यवाचकत्वस्वरूपलक्षणायां धोतुत्वं निराबाधमिति भूशब्दस्य न सुप्पकृतित्वमिति भूधात्वर्थे स्ववाच्यवाचकत्वेन लक्ष्ये भूशब्दे सप्तम्यर्थस्थान्वय इति न काऽप्यनुपपत्तिरिति प्राहुः । के चित्तु अनुकरण शब्दा: साधब इति सामान्यत एव भूसत्तायामित्यनेन जायते अत एव गविवाह मतिनानौते प्र
Aho! Shrutgyanam