________________
४०४
पञ्चमीविभक्तिविचारः ।
ति संख्याया आधिक्यं खान्यसंख्या व्याप्यत्वं न्यूनत्वं तु स्वान्यसंख्या व्यापकत्वं दशत्वव्याप्यं शतत्वं न तु द्वशत्वं तद्याप्यं दशमाचे व्यभिचारादिति शतत्वमधिकं शतत्वव्यापकं दशत्वमिति तन्न्यूनमिति अधिकसंख्या क चिदवयवगता यथा गुञ्जाया अधिको यवः क्व चिन्मूल्यगता यथा रजतादधिकं हिरण्यं क्व चित्पुण्यगता यथा पितुरधिको युधिष्ठिरः कचिद्दिद्यागता यथा वैशम्पायनादधिको व्यासः क चिह्नणगता यथा तेनसोऽधिके चितिपाथसौ एवमन्यत्राप्यूहनीयम् । तस्मात्स्थूलः art area दीर्घत्ववत्त्ववदन्वयो बोध्यः एवमन्यत्रापि विभक्तपञ्चम्यर्थान्वयो बोध्यः । केचित्तु तस्मादयं दीर्घ इत्यादौ पञ्चम्यर्थस्यावधिमत्त्वस्यापादानरूपस्य दीर्घादिनामार्थेऽन्वयाव्युत्पत्तेः भवतीतिक्रियाध्याहार इति वदमि । तदसत् कारकेऽपादानत्वस्वरूपस्य दर्शितत्वात् विभक्तपञ्चम्याः तदर्थकत्वविरहात् भवतोत्यध्याहारेऽपि भवत्यर्थयोरुत्पत्तिमत्तयोर्निरवधित्वेनानन्वयापतेश्च । किं दावधित्वमपि नैकं यतः विभागनिरूपोऽवधिनं परत्वष्टथक्वा दिनिरूपक इत्यास्तां विस्तरः । काशिकावृत्तौ निर्धारणाश्रये यस्मिन् विभक्तमस्ति ततः पञ्चमो भवतौति व्याख्यातं तदनुरोधेन प्रकृतेऽपि तथा व्याख्यातं निर्धारणं तु विशेषेण वक्ष्यते । यदि च नागरिकेषु पा'टलिपुत्रेभ्य श्राव्यतरा माथुरा इति नरेषु चत्रिया वैश्येयः शूरा इति च प्रयोगस्तदा वृत्तौ निर्धारणाश्रय इत्युपादानं युक्तमेवेति ।
•
इत्यकारक पञ्चग्यर्थनिर्णयः ।
इति विभक्त्यर्थनिर्णये पञ्चमौविवरणं समाप्तम् ।
Aho ! Shrutgyanam