________________
विभक्त्यर्थनिर्णये ।
४०३
र्थतावच्छेदके शौर्ये धनिशब्दार्थतावच्छेदके घने यथायोग्य मन्वेति पञ्चम्यर्थैकदेशे शौर्ये धने प्रकृत्यर्थस्यान्वयस्तथा च वैश्यशौर्य संख्यानिष्ठ भेदप्रतियोगितावच्छेदकजातिमत् संख्यावच्छौर्यवदभिन्नाः क्षत्रिया इत्यादिरन्वयबोध इति तन्न शोभनं शौर्यधनादः पञ्चम्यर्थे ऽनुप्रवेशे पञ्चम्यर्थस्याननुगमापत्तेः यचैकैकमेव धनमुत्कृष्टशपकृष्टं तत्रास्मादमौ धनिक इत्यादिप्रयोगानुपपत्तेश धनिकत्त्वमतिशयितधनवत्त्वमतिशयो बहुमूल्यता च उभयथाऽप्यतिशयितधनवत्त्वं धनिनिष्ठभेदप्रतियोगितावछेदकमिति दर्शितपक्षे न काऽप्यनुपपत्तिरिति । असावस्माद्दौर्घ इत्यव दीर्घत्वं परिमाणविशेषः तस्य खपरिमाण व दिपदार्थनिष्ठ भेदप्रतियोगितावच्छेदकत्वमचतमेव एवमस्मान्व इत्यत्र हस्वत्व परिमाणविशेषस्तस्यापि दीर्घावधिकत्वं दर्शितप्रायमिति । अयमस्मात्तारो मन्द्रो वेत्यत्र सजातीयमाक्षात्कारस्य प्रतिबन्धकतावच्छेदकजातिमत्त्वं तारत्वं प्रतिबध्यतावच्छेदकजातिमत्त्वं मन्द्रत्वमित्यन्यत्र विस्तरस्तारत्वं मन्द्रनिष्ठस्य मन्द्रत्वं तारनिष्ठस्य प्रतियागितावच्छेदकमिति नानुपपत्तिः श्वपाकाद्यवनो नौच इत्यव नौचत्वं वेदनिषिध्यतावच्छेदकत्वोपलक्षितधर्मविशिष्टकसंकट त्वं तादृशधर्मविशिष्टम्य गोहनना देरतिशयितनरकप्रयोजकस्य कर्तृत्वं यवननिष्ठं तादृशधर्मविशिष्टश्वपचादिनरकप्रयोजक कर्मकर्तृ श्वपाकटत्त्यन्योन्याभा वप्रतियोगितावच्छेदकमिति नीचपर्याय इतर शब्दोऽधमशब्दश्चेति । तस्मादयमधिक इत्यवाधिकत्वमधिकसंख्यात्वं न्यून संख्यक तद्दृत्तिभेद प्रतियोगितावच्छेदकमि
Aho ! Shrutgyanam
00
-