________________
विभक्तार्थनिर्णये । ॥ अथ षष्ठी ॥
४०५
ङस्योस्यामिति वयः प्रत्ययाप्तत्र ङकारोऽनुबन्धः क्व चिदप्यश्रूयमाणत्वान्न वाचकताकुचिप्रविष्ट इति सुमनसः सौकुमार्यं सुमनसोः सौरभ्यं सुमनसां मार्दवमित्यादौ श्रूयमाणत्वादसस्तश्वेन ओस ओस्त्वेन आम आन्त्वेन वाचकत्वमनुशासन सिहः षट्यर्थः । अनुशासनं च " षष्ठो शेषे" इति उक्तेभ्यः कर्मादिभ्यः प्रातिपदिकार्थादिभ्यश्च भिन्नः शेषः । काशिकाकृतस्तु यच्चाप्रधानं तच्छेषशब्देनोच्यते तदुभयत्र पर्यायेण वा षष्ठौ भवतीत्याहुः । तत्र शेषस्तावह्निन्नत्वेन अप्रधानमपि तवेन न षष्ठोवाच्यं किं तु शेषत्वेन शेषत्वं सम्बन्धत्वं सप्रतियोगिकत्वे सति सानुयोगिकत्वं प्रतियोगित्वानुयोगित्वनिरूपकतावच्छेदकधर्मवैशिष्ट्यमिति यावत् एकशतं षष्टार्था इति महाभाष्यपरिगणितमपि न प्रवत्तिनिमित्तानामनेकविधत्वं ज्ञापयति किं तु शेव्यक्तीनां सम्भवति शक्त्यैको अनन्तशक्तिकल्पनाया - न्याय्यत्वात् दर्शितधर्मवान् शेषः संयोगसमवायखत्वकर्तृत्वादिकारकविषयत्वादिभेदादनेकविधः हिमानां गिरिः गजस्यालानं वलिकाया स्तम्भ इत्यादौ षष्ठार्थः संयोगस्तत्र प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः पुरुषस्य दण्डः कर्णस्यावतंसः हृदयस्य हार इत्यादौ षष्ठार्थसंयोगे प्रकृत्यर्थस्यानुयोगिताऽन्वयः । हिमप्रतियोगिक संयोगवान् गिरिरित्यादिरन्त्रयबोधः । पुरुषानुयोगिक संयोगवान् दण्ड इत्यादिरन्वयदोधः । वृक्षस्य शाखेत्यादौ समवायः षष्टार्थस्तव प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः ।
Aho ! Shrutgyanam