________________
४०६
षष्ठीविभक्तिविचारः ।
वक्षप्रतियोगि कसमवायवती शाखेत्यन्त्रयबोधः । पटस्य नीलिमेत्यादौ समवेतत्वं षष्टार्थस्तव प्रकृत्यर्थं स्य निरूपितत्वेनान्वयः पटनिरूपितसमवेतत्ववान्नौलिमेत्यन्वयबोधः । राज्ञः पुरुष इत्यादौ स्वत्वं षष्टार्थस्तव निरूपितत्वेनान्वयः राजनिरूपितवत्ववान् पुरुष इत्यन्ययबोधः । पुरुषाणां राजा चित्राणां गवामयं नक्षत्राणां शशीत्यादौ स्वामित्वं षष्ठार्थस्तव निरूपितत्वेन प्रशत्यस्यान्वयः पुरुषनिरूपितस्वामित्ववावाजेत्यादिरन्वयबोधः सतां गतमित्यादौ कर्तृत्वं षष्ठार्थस्तवाधेयतथा प्रकृत्यर्थस्यान्वयः । श्रोदनस्य पक्तेत्यत्र कर्मत्वं षप्रर्थस्तव निरूपितत्वेन प्रकृत्यर्थस्थान्वयः फलानां तृप्तः पयमामभिषेक इत्यादौ करणत्वं व्यापारः षष्ठार्थस्तव प्रयोज्यतया प्रकृत्यर्थस्यान्वयः ब्राह्मणस्य दानमित्यादौ संप्रदानत्वं स्वत्वोद्देश्यताया अवच्छेदकत्वस्वरूपं षडार्थस्तवाधेयतया प्रकृत्यर्यस्थान्वयः कान्तस्य वस्यतात्यादौ दर्शितभयहेतुत्वस्वरूपमपादानत्वं षष्ठयर्थस्तवाधेयतया निरूपकतया वा प्रकृत्यर्थस्यान्वयः । पाकस्य गृहमित्यादावधिकरणत्वं पीठस्योपवेशनमित्याद बा'वेयत्वस्वरूपमधिकरणत्वं षष्टार्थस्तत्र निरूपकतया प्रकृत्यर्थस्थान्वयः शास्त्रस्य ज्ञातेत्यादौ विषयत्वं षष्टार्थः वमस्य रजतमित्यादौ विषयत्वं षष्टार्थस्तव निरुपकतया प्रकृत्यर्थस्यान्त्रयः अस्य पिता अस्य पुत्र इत्यादो जनकत्वं जन्यत्वं षष्टार्थस्तत्व प्रकृत्यर्थस्य निरूपकतयाऽन्वयः यदि च पितृत्वादिकं जनकत्वादिघटितं तदा निउत्वं षष्टार्थस्तच प्रकृत्यर्थस्य प्रतियोगितयाऽन्वयः । ए
Aho ! Shrutgyanam