________________
४०७
विभक्त्यर्थनिर्णये । वमन्याडशो पि शेषो बोध्यः । करणेऽर्थे षष्ठौं ज्ञापयति । "जोऽविदर्थस्य करणे" इति सूत्रम् । जानातेर विदर्थस्य करण कारके षष्ठी विभतिभवतीत्यर्थकम् । अविदत्तानभिन्नमथ वाऽज्ञानं मोहो मिथ्य ज्ञानमिति यावत् ज्ञानभिन्न प्रवृत्तिरूपोऽर्थो बोध्यः । तथा हि काशिका प्रवत्तिवचनो जानातिरविदर्थो भवति अथ वा मिथ्याज्ञानवचन इति मर्पिषो जानीत इत्यत्र षष्टयाः स्वजन्यं स्वविषयक प्रत्यक्षं व्यापारः करण त्वमर्थः प्रयोज्यतया प्रवृत्तिरूप धात्वर्थे वेति । मिथ्याज्ञानरूपे धात्वर्थे तु षष्टया लयो व्यापारीऽर्थः लयस्तु तथाविधं धागाऽपन्नं प्रत्यक्षं तज्जन्यदृढसंस्कारजन्यं स्मरणं वा तथा च सपिःप्रत्यक्षप्रयोज्यप्रवत्त्याश्रयवं वाक्यार्थः । अथ वा सर्पिल य प्रयोज्यं सर्पिस्तादात्म्यावगाहिसकलवस्तुविषयकं यन्मिथ्याजानं तदाश्रयत्वं वाक्यार्थ: । यो यहिषयकल यं वान्म तन्मयं जगत्पश्यतोति । एवं मधुनो जानौत इत्यादावयनया रौत्यान्वयो बोध्यः । अधौगादिकर्मणि षठौं ज्ञापयति । "अधौगर्गदयेशां कर्मणि" इति मूत्रम् । अधिपूर्वकस्यग्धातोः स्मरणमर्थस्तदर्थी ये धातवस्तेषां दयधातोरौशधातोश्च कर्मणि षष्ठी विभतिर्भवतीत्यर्थकं मातुरध्येति स्मरति चिन्तयति वेत्यादौ षष्ट्या आधेयत्वखरूपं कर्मत्वमर्थः फले विषयवेवति । माटवत्तिविषयताप्रतियोगिस्मरणाश्रयत्वं वाक्यार्थ: । दय दानगतिरक्षणेषु इति दयते स्त्रयोऽर्थाः तेषां कर्मणि षष्ठी तत्र दाने यथा सर्पिषो मधुनो वा दयते दूत्यत्र सर्पिष्कर्मक मधुकर्मकं वा यहानं तदाश्रय
Aho! Shrutgyanam